पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५३

पुटमेतत् सुपुष्टितम्
286
[बालकाण्डः
उमा गङ्गोत्पत्तिकथनम्

 इति तैः मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
 निद्रामुपागमच्छ्रीमान् अस्तंगत इवांशुमान् ॥ २२ ॥

 प्रशस्तः-स्तुतः, 'शंसुस्तुतौ ' 'यस्य विभाषा' इति नेट्, अनिदिताम्' इति नलोपः । श्रीमान्-दिव्यविद्यैश्वर्यवान् । निद्रामुपागमत् इत्यत्र हेतुगर्भंं विशेषणम्-अस्तंगत इत्यादि । अस्तमितः अंशुमान्-सूर्यो यस्मै स तथा ॥ २२ ॥

 रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
 प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्त्रिंशः सर्गः

 प्रशस्येति ल्यप् । स्थानिवत्त्वेन कित्वादनुनासिकलोपः । सेवते- सेवते स्म । गोष्ठ (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुस्त्रिंशः सर्गः

अथ पञ्चत्रिंशः सर्गः
[उमा-गङ्गोत्पत्तिकथनम्]

 उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
 निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ १ ॥

 एवं रामस्य देशविषयप्रश्नप्रसङ्गे स्ववंशविषयिणीं पुण्यकथामुपवर्ण्य तथैव बाल्यवशात् तदज्ञानप्रवृत्तरामप्रश्नेषु काव्यपरमपुरुषार्थ-