पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५६

पुटमेतत् सुपुष्टितम्
३५ सर्गः]
289
गङ्गायाश्चरते वक्तुं मुनिस्तत्रोपचक्रमे

 चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
 वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ १२ ॥

 वृद्धिः त्रैलोक्यव्याप्तिरूपिणी ॥ १२ ॥

 नगेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
 तस्य कन्याद्वयं राम ! रूपेणाप्रतिमं भुवि ॥ १३ ॥

 धातूनां-अयस्ताम्रादिधातूनाम् ॥ १३ ॥

 या मेरुदुहिता राम ! तयोर्माता सुमध्यमा ।
 नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ १४ ॥

 मेरोर्दुहिता मेरुदुहिता । तयोरिति । कन्ययोरित्यर्थः । मनोरमेति मेनाया नाम ॥ १४ ॥

 तस्यां गङ्गेयमभवत् ज्येष्ठा हिमवतः सुता ।
 उमा नाम द्वितीयाऽभूत् नाम्ना तस्यैव राघव ! ॥ १५ ॥
 अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया ।
 शैलेन्द्रं वरयामासुः गङ्गां त्रिपथगां नदीम् ॥ १६ ॥

 देवतार्थचिकीर्षया-देवतानां प्रयोजनसम्पादनेच्छया । देवताप्रयोजनं च स्वर्लोकस्नानपानादिः वक्ष्यमाणभगवद्वीर्यधारणं च । त्रयश्चते पन्थानः,'ऋक्पू: 'इत्यकारस्समासान्तः, त्रिप्रथात् गच्छतीति तथा ॥ १६ ॥

 ददौ धर्मेण हिमवान् तनयां लोकपावनीम् ।
 स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १७ ॥

 धर्मेण-धर्ममार्गेण ददौ । ननु देवप्रयोजनाय कथं स्वर्गमनम् ; न हि जलमाकाशे तिष्ठतीत्यत्रोक्तम्-स्वच्छन्दपथगामिति । स्वच्छन्दः-