पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७२

पुटमेतत् सुपुष्टितम्
३७ सर्गः]
305
स भूत्वा देवसेनानीः अजयत् दैत्यवाहिनीम्

लक्ष्म्या परया दप्यिमानं अनलं-अनलवद्दुस्पर्शं-तं सुग्रहप्रयोजनशैत्योपचारसिद्धये स्नापयन् | स्तन्यैरिति शेषः ॥ २७ ॥

 स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ।
 कार्तिकेयं महाभागं काकुत्स्थ ! ज्वलनोपमम् ॥ २८ ॥

 एवं कृत्तिकाभिः पुत्रत्वेन स्वीकृत्य स्तन्यपानानन्तरं पूर्वं कार्तिकेयत्वेनोक्तमुच्यमानविशेषणकं [१]तं प्रागुक्तरीत्या स्कन्नगर्भपरिस्रुतत्वहेतोः स्कन्द इति अन्वर्थनाम च चक्रुरित्यर्थः ॥ २८ ॥

 गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।
 अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥ २९ ॥

 एवं षण्मुखेन यावदपेक्षं क्षीरं गृहीत्वा एकाह्नैव-एकदिनेनैव,'राजाहः' इति टजभावोऽनित्यत्वात्, सुकुमारवपुः-आप्यायनेन कोमलसुन्दरपुष्टवपुरभवत् । तथा शनैः प्रवृद्धो दैत्यगणानजयत् ॥ २९ ॥

 प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।
 षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ ३० ॥

 अनन्तरं पानार्थमपि कृत्तिकानां क्षीरं प्रादुर्भूतं । तच्च षण्णां स्तनजक्षीरं अचिन्त्यशक्तित्वाद्दाहातिशयेन च षण्मुखो भूत्वा जग्राह ॥

 सुरसेनागणपतिं ततस्तमतुलद्युतिम्
 अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः ॥ ३१ ॥

 तत इति । यतोऽसुरगणमजयत् तत एव हेतोरित्यर्थः ॥ ३१ ॥

 एष ते राम ! गङ्गाया विस्तरोऽभिहितो मया ।
 कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ ३२ ॥


  1. ततः-घ.