उपसंहारः-एष इत्यादि । विस्तर इति । चरितविस्तर इति यावत् ॥ ३२ ॥
भक्तश्च यः कार्तिकेये काकुत्स्थ ! भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तत्रिंशः सर्गः
सालोक्यतां, स्वार्थिकःष्यञ् सलोकतां व्रजेत् । इमं कुमार सम्भवसर्गं पठन्निति शेषः । गङ्गा(३३)मानः सर्गः ॥ ३३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तत्रिंशः सर्गः
अथ अष्टात्रिंशः सर्गः
[सगरवृत्तान्तः]
तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १ ॥
अथ 'त्रीन् पथो हेतुना केन' इत्यादिप्रश्नस्य चोत्तरार्थं उपोद्धातः-तां कथामित्यादि । इदमपरं वाक्यमिति । [१]अपृष्टोत्तरं वक्ष्यमाणरूपमिति शेषः ॥ १ ॥
अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामः स[२] चाप्रजः ॥ २ ॥
यस्मात् अप्रजः तस्मात् प्रजाकामः अभूत् ॥ २ ॥