शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनन्दन ! ॥ १८ ॥
भिद्यमानेति । सर्वत इति शेषः । वसुमतीति । तद्वर्तिसर्वस्रोतांसीति यावत् ॥ १८ ॥
नागानां वध्यमानानां असुराणां च राघव !
राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ॥ १९ ॥
योजनानां सहस्राणि षष्टिं तु रघुनन्दन !
बिभिदुर्धरणीं वीक्ष्य रसातलमनुत्तमम् ॥ २० ॥
योजनानामित्यादि । पितृनियुक्तमार्गेण सर्वां सन्दिग्धां खननोपेतां विचित्य पृथिव्यधोभागं रसातलमेव विचेतुं धरणीं एकैकत: योजनानां सहस्राणि षष्टिं तु बिभिदुः ॥ २० ॥
एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः ।
खनन्तो नरशार्दूल ! सर्वतः परिचक्रमुः ॥ २१ ॥
पर्वतैस्सम्बाधः-नैबिढ्यं-यस्य तत्तथा ॥ २१ ॥
ततो देवास्सगन्धर्वाः सासुरास्सहपन्नगाः ।
सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २२ ॥
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
उचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २३ ॥
भगवन् ! पृथिवी सर्वा खन्यते सगरात्मजैः ।
बहवश्च महात्मनो हन्यन्ते तलवासिनः ॥ २४ ॥
तलवासिनो महात्मान इति । कपिलवद्रसातलवासिनो महात्मानः सिद्धगन्धर्वादयः इत्यर्थः ॥ २४ ॥