शिंशुमारोरगगणैमनैरपि च चञ्चलैः
विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ २१ ॥
विक्षिप्तैः-निस्सृतैरिति यावत् । विद्युच्छब्दोऽपि पुल्लिङ्गः,लिङ्गमशास्यमिति प्रयोगैकावसेयत्ववादाल्लिङ्गस्य । कथं तर्हि विद्युदादेर्नियतलिङ्गपाठः ? प्रायोऽभिप्रायादित्येव ॥ २१ ॥
पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।
शारदाभ्रैरिवाकीर्णैः गगनं हंससंप्लवैः ॥ २२ ॥
सलिलोत्पीडः–फेनः । सहस्रधा कीर्यमाणैरिति । वाय्वाद्युपाधित इति शेषः । अत एव आकीर्णैश्शारदाभ्रैरिव हंससंप्लवैः हंससमूहैरिव च गगनं आभातीति पूर्वेणान्वयः । एवं पाङ्क्ते पाठे अर्थे च स्थिते आकर्णिमिति पठति । सलिलोत्पीडो जलपिण्ड इति च [१] व्याकरोति ॥
क्वचिद्दुततरं याति कुटिलं क्वचिदायतम् ।
विनतं[२] क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः ॥ २३ ॥
क्वचिद्दुततरं यातीति ।[३]गङ्गासलिलमिति शेषः। आयतं-बहुप्रदेशव्यापितया विस्तृत- प्रवाहं, क्वचिद्विनतं-अगाधदेशे सङ्कचित-प्रवाहं । उद्ध्रूतमिति । पाषाणादिताडनादिति शेषः । इदमेवोर्ध्वपथ-गमनेऽपि निमित्तम् ॥ २३ ॥
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।
मुहुरूर्ध्वमुखं गत्वा पपात वसुधातलम् ॥ २४ ॥
तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २५ ॥
निर्मलत्वे हेतुः भ्रंशद्वयम् ॥ २५ ॥