पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०५

पुटमेतत् सुपुष्टितम्
338
[बालकाण्डः
सगरपुत्रोद्धारः

 तत्कृतनामादिविश्रुतत्वमेव प्रकाशयति-गङ्गा त्रिपथगेत्यादि । तत्कृतनाम्नोऽन्वर्थत्वं दर्शयति-त्रीनित्यादि । अनेन कथं गङ्गा त्रिपथगा श्रुतेत्यस्योत्तरं संवृत्तम् ॥ ६ ॥

 पितामहानां सर्वेषां त्वमत्र मनुजाधिप !
 कुरुष्व सलिलं राजन् ! प्रतिज्ञामपवर्जय ॥ ७ ॥

 कुरुष्वेति । गङ्गाजलसेकतः कृतप्रायश्चित्तत्वेन सलिलदानार्हतस्सलिलदानाद्युत्तरक्रियानुमतिः । अपवर्जय । अपवर्गस्समाप्तिः । गरुत्मदुपदिष्टस्य गङ्गोदकेन सलिलक्रियाप्रतिज्ञानोपदेशस्यानुष्ठानसमाप्ति कुर्वित्यर्थः ॥ ७ ॥

 पूर्वकेण हि ते राजन् ! तेनातियशसा तदा ।
 धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥ ८ ॥

 पूर्वकेणेति । सगरणेति यावत् । तस्य गङ्गाऽलाभदुःखित्वकुत्सा कप्रत्ययेन द्योत्यते ॥ ८ ॥

 तथैवांशुमता तात ! लोकेऽप्रतिमतेजसा ।
 गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ ९ ॥
 राजर्षिणा गुणवता महर्षिसमतेजसा ।
 मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ १० ॥

 क्षत्रधर्मे स्थितेनापि मत्तुल्यतपसा । तपः-स्वाध्यायः । अयं ब्रह्मवद्ब्रह्मर्षिवच्च दुर्लभः क्षत्रियेणेति स्तुतिः । महर्षिसमतेजसेति । अनेन पूर्णतपस्त्वं स्वाध्यायातिरिक्तमुक्तमेव ॥ १० ॥

 दिलीपेन महाभाग ! तव पित्रातितेजसा ।
 पुनर्न [१]शकिता नेतुं गङ्गां प्रार्थयताऽनघ! ॥ ११ ॥


  1. न शङ्किता-न विचारिता-गो.