हतपुत्राऽस्मि भगवन् ! तव पुत्रैर्महा[१]बलैः
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ॥ २ ॥
दीर्घेण तपसा आर्जतो दर्घितपोऽर्जितः ॥ २ ॥
[२]साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ ३ ॥
ईश्वरं-त्रैलोक्यनाथम् ॥ ३ ॥
तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ४ ॥
एवं भवतु, भद्रं ते, शुचिर्भव तपोधने !
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ ५ ॥
शुचिर्भवेति । यावत्पुत्रोत्पत्तीति शेषः ॥ ५ ॥ पूर्णे वर्षसहस्त्रे तु शुचिर्यदि भविष्यसि । पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ ६ ॥ शुचिर्यदि भविष्यसीति । संवत्सरसहस्रमपीति शेषः ॥ ६ ॥
एवमुक्त्वा महातेजा पाणिना सम्ममार्ज ताम् ।
समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ ७ ॥
पाणिना तां सम्ममार्जेति । दिव्यपुत्रप्रतिबन्धहेतुपापक्षयार्थमिति शेषः । अथ समालभ्य-उदरं स्पृष्ट्वा स्वस्ति-गर्भरूपं भद्रं तवास्त्वित्यनुगृह्य सः काश्यपः तपसे ययौ ॥ ७ ॥
गते तस्मिन्नरश्रेष्ठ ! दितिः परमहर्षिता ।
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ ८ ॥
कुशप्लवनं-विशालानिर्मितेः पूर्वं तद्देशतपोवनम् ॥ ८ ॥