यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
कथं पद्भ्यामिह प्राप्तौ ? किमर्थं ? कस्य वा ? मुने !॥ ४ ॥
यदृच्छया-दैववशसम्पन्ननिमित्तविशेषेणेति यावत् । इदं तु वास्तवं किमर्थं-किं प्रयोजनमुद्दिश्य । कस्य वेति । सुताविति शेषः ॥
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ।
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ ५ ॥
भूषयन्ताविति। निजतेजसेति शेषः । तादृशपुरुषान्तरस्याभावात्–परस्परस्येति । प्रमाणं-आकारप्रमाणम् । इङ्गितं-आन्तराशय बोधकस्मितादिः । चेष्टा-वचनगमनादि ॥ ५ ॥
किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि ।
वरायुधधरौ वीरौ,श्रोतुमिच्छामि तत्त्वतः ॥ ६ ॥
किमर्थं प्राप्ताविति । आदरातिशयात् पुनः प्रश्नः ॥ ६ ॥
[१]तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७ ॥
यथावृत्तं न्यवेदयदिति । दशरथकुमारावस्मद्यज्ञविघ्ननिवारणार्थं अस्मदा [२]करणात्-सिद्धाश्रममागताविति सिद्धाश्रमनिवासपर्यन्तवृत्तान्तः -राक्षसानामिति । तदूध रूपयज्ञविघ्ननिवृत्तिप्रयोजनम्, चकाराज्जनक-धनुर्दिदृक्षयैतद्देशगमनं च न्यवेदयदित्यर्थः ॥ ७ ॥
विश्वामित्रवचःश्रुत्वा राजा [३]परमहर्षितः ।
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ॥ ८ ॥