पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२६

पुटमेतत् सुपुष्टितम्
४८ सर्गः]
359
स्थित्वा तत्र निशामेकां जग्मुस्ते मिथिलां ततः

 पूजयामास विधिवत् सत्कारार्हौ महाबलौ ।
 ततः परमसत्कारं सुमतेः प्राप्य राघवौ ॥ ९ ॥
 उष्य तत्र निशामेकां जग्मुतुर्मिथिलां ततः ।

 उष्य-उषित्वा ॥९॥

 [१][२]तां दृष्ट्वा मुनयस्सर्वे जनकस्य पुरीं शुभाम् ॥ १० ॥
 साधु साध्विति शंसन्तो मिथिलां समपूजयन् ।

 समपूजयन्निति पूजाप्रकार एव-साधु साध्विति शंसनम् ॥

 मिथिलोपवने तत्र आश्रमं दृश्य राघवः । ॥ ११ ॥
 पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ।

 मिथिलाया उप-समीपे वर्तमानं वनं तथा । दृश्य-दृष्ट्वा । पुराणत्वादिविशेषणमाश्रमस्य ॥ ११ ॥

 श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्जितम् ॥ १२ ॥
 श्रोतुमिच्छामि भगवन् ! कस्यायं पूर्व आश्रमः ।

 आश्रमसङ्काशं-आश्रमवदवभासमानं, नापि चाश्रमशक्यवादम्, इदानीं मुनिवर्जितत्वात्, अत इदं किन्नु अस्यैव विवरणम्-कस्यायं पूर्व आश्रम इति । पूर्वः– पूर्वकालस्वभूतः ॥ १२ ॥

 तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ॥ १३ ॥
 प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ।
 हन्त ! ते कथयिष्यामि शृणु तत्वेन राघव ! ॥ १४ ॥
 यस्येदमाश्रमपदं शप्तं कोपान्महात्मना ।


  1. तान्-पुरीं प्रति प्रस्थितान् रामादीन्-गो.
  2. तान् दृष्ट्वा-ते दृष्ट्वा-ङ.