पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२९

पुटमेतत् सुपुष्टितम्
362
[बालकाण्डः
अहल्याशापः

 गौतमं तं ददर्शाथ प्रविशन्तं महामुनिम् ।
 देवदानवदुर्धर्षं तपोबलसमन्वितम् ॥ २४ ॥

 अथ-उटजनिष्क्रमणसमनन्तरमेव । तं ददर्शेति । यं प्रति शङ्कितवान् तं ददर्श ॥ २४ ॥

 तीर्थोदकपरिरक्लन्नं दीप्यमानमिवानलम् ।
 गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् ॥ २५ ॥
 दृष्ट्वा सुरपतिस्त्रस्तो [१]विषण्णवदनोऽभवत् ।

 अत एव-विषण्णवदनः ॥ २५ ॥

 अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ॥ २६ ॥
 दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ।
 मम रूपं समास्थाय कृतवानसि दुर्मते ! ॥ २७ ॥
 अकर्तव्यमिदं, तस्मात् विफलस्त्वं भविष्यसि ।

 मम रूपं इति । अस्मच्छब्दो गौतमार्थः । यस्मादिदं अकर्तव्यं-कर्तुमनर्हं कृतवानसि; तस्मात् त्वं विफलः-विगतवृषणः भविष्यसि ।'लाभनिष्पत्तिभोगेषु बीजे फाले धने फलम्' ॥ २७ ॥

 गौतमेनैवमुक्तस्य सरोषेण महात्मना ॥ २८ ॥
 [२]पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् ।
 तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ॥ २९ ॥
 इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ।
 [३]वायुभक्षा [४]निराहारा तप्यन्ती भस्मशायिनी ॥ ३० ॥


  1. विवर्णवदनः-ङ
  2. एतदनन्तरं 'व्यथितस्सहसा चासीद्धतौजा विफलीकृतः ।घर्षितस्तपसोग्रेण कश्मलं चैवमाविशत् ॥ इत्यधिकं-ङ.
  3. अत्र बुद्धिपूर्वकव्यभिचारस्य विधीयमानं प्रायश्चित्तं शापापदेशेनोच्यते । एवं व्यक्ततया वाल्मीकिवचने स्थिते शैलीभवेति शापः, रामपादस्पर्शात् शिलात्वमुक्तिरिति
    पुराणकथा कल्पान्तरवृत्तमनुसत्येति बोध्यम्-गो.
  4. शिला भूत्वा-ङ.