पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३६

पुटमेतत् सुपुष्टितम्
५० सर्गः]
369
रामपादरजस्स्पर्शात् अहल्या स्वं वपुर्दधौ

 साधु साध्विति देवास्तामहल्यां समपूजयन् ।
 तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ २० ॥

 भगवतो रामस्य ब्रह्मणः पूजया कृतार्थायाः सत्या अहल्यायाः पूजा ॥ २० ॥

 गौतमो हि महातेजा अहल्यासहितः सुखी ।
 रामं संपूज्य विधिवत् तपस्तेपे महातपाः ॥ २१ ॥

 अहल्यासहितस्सुखी रामं संपूज्येत्यनेन पुनस्तत्काल आश्रम- प्राप्तिरिति सूचितम् ॥ २१ ॥

 रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
 सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनपञ्चाशः सर्गः

 खुर (२२) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनपञ्चशः सर्गः

अथ पञ्चाशः सर्गः
[जनकसमागमः]

 ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह ।
 विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १ ॥

 एवमहल्याऽनुग्रहरूपश्रीरामचरितवर्णनानन्तरं जनकधनुर्भङ्गादिदिव्यचरितवर्णनशेषतया जनकदर्शनं प्रतिपाद्यते-ततः प्रागुत्तरामित्यादि । ईशानदिशमित्यर्थः । तत इति । तस्माद्गौतमाश्रमादित्यर्थः ॥ १ ॥

 रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।
 साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ २ ॥