पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४१

पुटमेतत् सुपुष्टितम्
374
[बालकाण्डः
विश्वामित्रचरितोपक्रमः

 स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ ।
 शातानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ ३ ॥

 तौ निषण्णौ संप्रेक्ष्य, तत्रापि रामसंदर्शनादेव परं विस्मयमागतः । अहो महिमा रामस्य ! यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्त इत्यर्थः ॥ ३ ॥

 अपि ते मुनिशार्दूल ! मम माता यशस्विनी ।
 दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ ४ ॥

 स एव विस्मयहेतुः प्रकाश्यते-अपि ते मुनिशार्दूलेत्यादिना ॥

 अपि रामे महातेजा मम माता यशस्विनी ।
 वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥ ५ ॥

 रामे । रामविषय इति यावत् ॥ ५ ॥

 अपि रामाय कथितं [१]यद्वृत्तं तत् पुरातनम् ।
 मम मातुर्महातेजः ! [२]देवेन [३]दुरनुष्ठितम् ॥ ६ ॥

 हे महातेजः विश्वामित्र ! मम मातुर्विषये देवेन-इन्द्रेण दुरनुष्ठितरूपं पुरातनं यद्वृत्त-चरितमस्ति तत् यथा-यथावत् कथितमपि-कथितं किं सर्वतः ? अपिः प्रश्ने ॥ ६ ॥

 अपि कौशिक ! भद्रं ते, गुरुणा मम सङ्गता ।
 माता मम, मुनिश्रेष्ठ ! [४]रामसन्दर्शनादितः ॥ ७ ॥

 गुरुणा-पित्रा । रामसन्दर्शनादित इति । गतशापेति शेषः ।


  1. यथावृत्तं पुरातनम्-ङ.
  2. दैवेन-घ. ङ.
  3. यदनुष्ठि-ङ.
  4. रामसन्दर्शनादित इति । तृतीयार्थे तसिः-गो. इतः अस्मात् रामसन्दर्शनात् मम माता मम गुरुणा-पित्रा सह संगता अपि ? -रा.