इह अस्मदाश्रये समागतो महातेजा रामः पूजितोपि ? महात्मनो मम गुरोस्सकाशात् पूजां प्राप्य शान्तेन मनसा उपलक्षितेनेहागतेन रामेण मम गुरुः प्रयत्नेनाभिवादितः किम् ?॥ ८-९ ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १० ॥
नातिक्रान्तं, मुनिश्रेष्ठ ! यत्कर्तव्यं कृतं मया ।
सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११ ॥
यत् कर्तव्यं तन्नातिक्रान्तं-नातिपतितं, अपि तु मया कृतमेव । किं कृतमित्यतः-संगतेत्यादि । मुनिना-गौतमेन । भार्गवेणेति । भार्गव-कोपहता रेणुका परशुराममाता यथा पुनर्भार्गवेण-जमदग्निना संगता तद्वदित्यर्थः ॥ ११ ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।
शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२ ॥
स्वागतं ते नरश्रेष्ठ ! दिष्ट्या प्राप्तोऽसि राघव !
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ १३ ॥
दिष्ट्या-दैवयोगेन । विश्वामित्रपुरस्कारेणेह प्राप्तिर्दैवयोग- लभ्येति विश्वामित्रस्यैव स्तुतिः । तथैवाग्रे प्रतिपाद्यते । अपराजितं-अप्रतिहतशक्तिम् ॥ १३ ॥