पुटमेतत् सुपुष्टितम्
388
[बालकाण्डः
विश्वामित्रबलविमर्दनम्
त्वत्सकाशतः-त्वत्समीपात् ॥ ७ ॥
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ ८ ॥
स्वसा-भगिनी ॥ ८ ॥
बलोन्मत्तेन ह्रियत इति ; किं भवतो बलं नास्ति ? नेत्याह-न हीत्यादि ॥ १० ॥
इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ ११ ॥
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १२ ॥
विनीतवत्-विनयोपेतं यथा तथा उवाच ॥ १२ ॥
न बलं क्षत्रियस्याहुः ब्राह्मणो बलवत्तरः ।
ब्रह्मन् ! ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ १३ ॥
बलवत्तर इति । क्षत्रियादिति शेषः । यदेवमतः-ब्रह्मन्नित्यादि ।