पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५९

पुटमेतत् सुपुष्टितम्
392
बालकाण्डः
विश्वामित्रधनुर्वेदाधिगमः

 दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः ।
 सव्रीडश्चिन्तयाऽऽविष्टो विश्वामित्रोऽभवत् तदा ॥ ८ ॥
 [१]समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः ।
 उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ९ ॥

 निर्वेग इति । युद्धप्रवृत्तिरहित इत्यर्थः । निर्वेगत्वे समुद्रदृष्टान्तः, [२]भग्नदंष्ट्रोरगदृष्टान्तः । निष्प्रभत्वे उपरक्तादित्यदृष्टान्तः । उपरक्तः-राहुग्रस्तः ॥ ९ ॥

 हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।
 हतदर्पो हतोत्साहो निर्वेदं समपद्यत ॥ १० ॥

 निर्वेदः-वृथाप्रयासत्वबुद्धिजः चित्तखेदः ॥ १० ॥

 स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
 पृथिवीं क्षात्रधर्मेण, वनमेवान्वपद्यत ॥ ११ ॥

 एकमिति । अवशिष्टमिति शेषः ॥ ११ ॥

 स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् ।
 महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १२ ॥
 केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।
 दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ १३ ॥

 दर्शयामासेति । विश्वामित्रं प्रति स्वात्मानमिति शेषः ॥ १३ ॥

 किमर्थं तप्यसे राजन् ! ब्रूहि यत् ते विवक्षितम् ।
 वरदोऽस्मि वरो यस्ते काङ्क्षितस्सोऽभिधीयताम् ॥ १४ ॥


  1. भग्नदंष्ट्र उरग इव; निश्शक्तिरिति शेषः-गो.निर्वेगत्वे समुद्रोपमा,निष्प्रभत्वे इतरे उपमे-ति. निर्वेगः समुद्र इव भग्नदंष्ट्र उरग इव उपरक्तः-आदित्य इव सद्यो निष्प्रभतां गतः-शि.
  2. निष्प्रभत्वे भग्नदंष्ट्रोरगदृष्टान्तः-ग.