एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५ ॥
यदि तुष्टो महादेव ! धनुर्वेदो ममानघ !
[१]साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ॥
साक्षादारादुपकारकत्वलक्षणान्यङ्गोपाङ्गानि प्रधानस्य, तत्साधकरहस्यमन्त्र उपनिषदः । तत्राङ्गोपाङ्गमन्त्रसहितस्साङ्गोपाङ्गोपनिषदः । सदेः पचाद्यचि 'सदिरप्रतेः' इति षत्वम् । रहस्यं-शास्त्राशक्य-निबन्धनमाचार्यमुखैकगम्यं विद्याजातम् ॥ १६ ॥
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ ॥ १७ ॥
तव प्रसादाद्भवतु देवदेव ! ममेप्सितम् ।
तव प्रसादादिति । न तु प्रातिखिकत्वदुपदेशमपेक्ष्येत्यर्थः ॥ १७ ॥
एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १८ ॥
प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।
दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥ १९ ॥
क्षत्त्रियत्वादेव दर्पः सहजः, तस्य पूर्तिर्दिव्यास्त्रलाभात् ॥ १९ ॥
विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।
यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ २१ ॥
यैर्निर्दग्धं तादृशास्त्राणीति योजना ॥ २१ ॥
- ↑ उपनिषद इति । 'द्वन्द्वात् चुदषहान्तात् समाहारे' इति टच् । अदन्तो वा-शि.