पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६५

पुटमेतत् सुपुष्टितम्
398
[बालकाण्डः
विश्वामित्रनिग्रहः

 तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
 वसिष्ठो ग्रसते सर्वं [१]ब्रह्मदण्डेन राघव ! ॥ १६ ॥

 ब्राह्मेण तेजसेति । ब्रह्मविद्यानुष्ठानवैभवजनिताधिकब्रह्मवर्चसेनेति यावत् । ब्रह्मदण्डेन । मूर्तब्रह्मविद्यामयेन करधृतेन चेत्यर्थः ॥

 ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
 त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥ १७ ॥

 ग्रसमानस्य-एवमुभयबलेन ब्रह्मास्त्रं ग्रसमानस्येति । अयमर्थः-मूलब्रह्मविद्यायास्तत्तदक्षरतत्त्वमात्राक्रियावस्थादिद्वाविंशतिविभूत्यनुसन्धानपूर्वं बहिर्भाव्यमाना मूलविद्या बहिः करगतो ब्रह्मदण्डो भवति । तथा ध्यानोपेतं स्वात्मनि यथास्थलं न्यस्यमाना स्वमूर्त्यात्मना नित्य आन्तरो ब्रह्मदण्डो भवति । ब्रह्मास्त्रं तूक्तब्रह्मविद्यामार्गबीजभेदविलासात्मा । तच्च कालप्रधानं रोचिःप्रधानं चेति द्वेधा । तत्र रोचिःप्रधानस्य बहिर्ब्रह्मदण्डे हृदा ग्रस्य क्रमान्मोक्ष इत्युपनिषदुपदिश्यमानमार्गेण ग्रसनं-ग्रासः, परस्यान्तरब्रह्मदण्डे ग्रास इति । एवं ग्रसमानस्य वसिष्ठस्य रूपं ब्रह्मविद्यामूर्तिमयं त्रैलोक्यमोहनं-भयात् त्रिलोकीचित्तमूर्च्छाकरमासीत । तत्र हेतुः-- रौद्रमतिदारुणमिति । रौद्रं-भयानकं स्मरणेन च; दारुणं-दुर्दशं, नृसिंहवीरभद्राद्यावेशमूर्तिवदित्यर्थः ॥ १७ ॥

 रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
 मरीच्य इव निष्पेतु[२]रग्नेर्धूमाकुलार्चिषः ॥ १८ ॥


  1. अत्र ग्रासक्रियायां न दण्डस्यान्वयः पुत्रैर्गर्दभी भारं वहतीतिवत् । अतो न वक्ष्यमाणेन विरोधः-गो.
  2. ऋषेः विश्वामित्रब्रह्मास्त्राकुलत्वात् धूमाकुलार्चिष्ट्वमग्नेर्विशेषणम्-ति.