अथ षष्टितमः सर्गः
[त्रिशङ्कोः स्वर्गारोहणम्]
तपोबलहतान्[१]कृत्वा वासिष्ठान् समहोदयान् ।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥
अथानपेतक्षत्रधर्मत्वादुग्रतपस्त्वाभिमानादन्याय्ययाजनप्रवृत्तिःतपोबलेत्यादि ॥ १॥
अयमिक्ष्वाकुदायादः त्रिशङ्कुरिति विश्रुतः ।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥२॥
[२]तेनानेन शरीरेण देवलोकजिगीषया।
इक्ष्वाकुदायादः । दायमत्तीति दायादः । पचाद्यच् । पुत्रपौत्रादीक्ष्वाकुवंश्य इति यावत् । एवमादिगुणवर्णनं याज्यत्वप्रकाशनाय । वसिष्ठवासिष्ठतिरस्कृतस्य रक्षणे मद्व्यतिरिक्तस्समर्थो नास्तीति निश्चित्य मामेवानेन शरीरेण देवलोकजिगीषया शरणं गत इत्यर्थः ॥
यथाऽयं स्वशरीरेण[३]स्वर्गलोकं गमिष्यति ॥३॥
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ।
यदेवमतः—यथेत्यादि ॥३॥
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥४॥
ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ।
समेत्योचुरिति । अन्योन्यमिति शेषः ॥ ४ ॥
अयं कुशिकदायादो मुनिः परमकोपनः ॥५॥
यदाह वचनं सम्यगेतत्कार्यं न संशयः ।