पुटमेतत् सुपुष्टितम्
426
[बालकाण्डः
शुनश्शेफोपाख्यानम्
द्विषष्टितमः सर्गः
[शुनश्शेफोपाख्यानम्]
[१]शुनश्शेफं नरश्रेष्ठ ! गृहीत्वा तु महायशाः |
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ! ॥ १ ॥
अथ पश्चिमायामपि तपोविघ्नः उपदिष्टयज्ञद्वारा-शुनश्शेफमित्यादि । व्यश्राम्यदिति । शमादित्वात् श्यनि दीर्घः । अह्नो मध्यं-मध्याह्नः, एकदेशिसमासः, 'राजाऽहः' इति टचि 'अह्नोऽह्नः' इत्यहादेशः, तस्मिन् मध्याह्ने ॥ १ ॥
विश्रममाणस्येति । विश्राम्यत इति यावत् छान्दसस्तङादिः, भावलक्षणे षष्ठी, तस्मिन् विश्राम्यति सति । आगम्येति । 'वा ल्यपि' इत्यनुनासिकलोपाभावः । मातुलमिति । ऋचीकाय कौशिकी प्रतिपादिता इत्युक्तत्वात्[४]
विवर्णवदनो दीनस्तृष्णया च श्रमेण च ॥ ३ ॥
पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ।
तृष्णा-पिपासा । श्रमः-अध्वश्रमः । पपाताङ्क इति । मातुलत्वादेवोत्सङ्गोपसर्पणम् ॥ ३ ॥