पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०२

पुटमेतत् सुपुष्टितम्
437
तद्दृष्ट्वा संभ्रमं प्रापुः सुराः सेन्द्रमरुद्गणाः

 घर्मे पञ्चतपा भृत्वा वर्षास्वाकाशसंश्रयः ।
 शिशिरे [१]सलिलस्थायी रात्र्यहानि तपोधनः ॥ २३ ॥

 घर्मः-ग्रीष्मकालः । आकाशसंश्रयः-वर्षवारणरहितदेशस्थः । रात्रयश्चाहानि च रात्र्यहानि, कृत्स्नमपि दिनमित्यर्थः ॥ २३ ॥

 एवं वर्षसहस्रं हि तपो घोरमुपागमत् ।
 तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ ॥ २४ ॥
 संभ्रमः सुमहानासीत् सुराणां वासवस्य च ।
 रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः ।
 उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ २५ ॥

 आत्महितामिति । आत्मन्शब्द इन्द्रार्थः । [२]एवमादावस्थले सर्गोच्छेदादृष्युपदिष्टसर्गसङ्ख्यातोऽप्याधिकदर्शनं ॥ २५ ॥

 सुरकार्यमिदं रंभे कर्तव्यं सुमहत् त्वया ।
 लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिषष्टितमः सर्गः

 किमुवाचेत्यतः–सुरकार्यमित्यादि । तिष्ठतु वा सर्गोच्छेदः, न तेन काचन हानिरर्थसिद्धौ[३] ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिषष्टितमः सर्गः



  1. सलिले शायी-ङ. ज.
  2. एवं कथयतोऽप्यस्य व्याख्यातुः अत्र सर्गविच्छेदः सम्मत एव । यत उत्तरत्र तथैवर्गान् गणयति । पूर्वं चाह-'काण्डे किलाद्ये संस्थानं (७७) इति । सर्वेषु कोशेष्वप्येवमेव दृश्यते । अनन्तरश्लोके च 'तिष्ठतु वा सर्गोच्छेदः' इत्याह ।
  3. मातृकासु एतत्स्थले सर्गविच्छेदो लिखितः । 'सुरकार्यमिदं' इत्यादेर्व्याख्यानं तु अनन्तरसर्गे लिखितम् ।