[१]एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ! ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्षष्टितमः सर्गः
एवं दीक्षामिति । अनुछ्वासाभोजनसङ्कल्पमुद्दिश्येति शेषः । अप्रतिमां-निस्तुलां प्रतिज्ञां सर्वथा एवं करिष्यामीत्यध्यवस्यति स्मेत्यर्थः । नख (२०) मानः सर्गः ॥ २० ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्षष्टितमः सर्गः
अथ पञ्चषष्टितमः सर्गः
[ ब्रह्मर्षित्वप्राप्तिः ]
अथ हैमवतीं राम ! दिशं त्यक्त्वा महामुनिः ।
पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १ ॥
अथैवमुत्तरेऽपि चतुर्थव्यूहप्रधानपूर्वमुखप्राधान्येन पूर्वस्यां दिशि तप उपदिश्यते-अथेत्यादि । हैमवतीं -हिमवदुत्तरपार्श्वगां ॥ १ ॥
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।
चकाराप्रतिमं राम ! तपः परमदुष्करम् ॥ २ ॥
पूर्णे वषसहस्रे तु काष्ठभूतं महामुनिम् ।
विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ ३ ॥
स कृत्वा निश्चयं राम ! तप आतिष्ठदव्ययम् ।
- ↑ वर्षसहस्रस्य–वर्षसहस्रसम्बन्धिनीं दीक्षां-गो. वर्षसहस्रस्य दीक्षां निर्वर्तयितुं अप्रतिमां प्रतिज्ञां चकार-शि.अप्रतिमां प्रतिज्ञां दीक्षां च चकार इति वाऽर्थः ।