पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१५

पुटमेतत् सुपुष्टितम्
450
[बालकाण्डः
ब्रह्मर्षित्वप्राप्तिः

 श्वः प्रभाते महातेजः ! द्रष्टुमर्हसि मां पुनः ।
 [रामेण रमणीयेन लक्ष्मणेन च सङ्गतः ।
 स्वागतं तपतां श्रेष्ठ ! मामनुज्ञातुमर्हसि ॥ ३७ ॥
 एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।
 [१]विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥३८॥

 स्वागतं भद्रमिति पर्यायः यथायोगं । अनुज्ञातुमर्हसीति । कर्मण इति शेषः ॥ ३८ ॥

 एवमुक्त्वा मुनिश्रेष्ठ वैदेहो मिथिलाधिपः ।
 प्रदक्षिणं [२]चकाराशु सोपाध्यायः सबान्धवः ॥ ३९ ॥
 विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः ।
 [३]स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चषष्टितमः सर्गः

 स्ववाटं-स्वनिवेशनम् । [४]धन(४०)मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चषष्टितमः सर्गः


  1. विससर्जाथ-ङ.ज.
  2. आशु इत्यनेन-गृहं गत्वा कदा इमां कथां वर्णयिष्यामि-इत्यभिलाषातिशयः सूचितः-शि.परन्तु-पूर्वश्लोके 'मुनिवरः जनकं आशु विससर्ज' इत्युक्तम् । तत्र मुनिवरस्य त्वरायां हेतुः 'एवमुक्तः' इत्यनेन सूचितः । तत्पूर्वं हि 'कर्मकालः अतिवर्तते 'इति जनकेनोक्तं । तच्छ्रुत्वा विश्वामित्रः तत्वरे । तदृष्ट्वा जनकोऽपि तत्त्वरे, महर्षेस्तस्य अनुष्ठानकालातिक्रमणभयात् । जनकोऽपि हि कर्मठ इति प्रसिद्धम् । अतः 'आशु' इत्यनेन कालातिक्रमभयं सूच्यत इति युक्तम् ।
  3. स्ववासमभि-ज.
  4. अत्र क-ग मातृकाद्वये अङ्कसंख्यया ३१. इति श्लोकानां निर्देशो दृश्यते । दृश्यन्ते तु ४० श्लोकाः । घ. पुस्तके 'धनमानः' इति दृश्यते । तत्र यथा श्रुते ४० इति सङ्ख्या विवक्षणीया । परन्तु कटपयादीनां व्यत्यासेन लेखनमेव सांप्रदायिकम् ॥