43
स. | श्लो. | |
111 | -17 |
छिद्रं हि मृगयन्ते । यज्ञादिषु मन्त्रक्रियालोपादिना राक्षसत्वं प्राप्ता ब्राह्मणाः–ब्रह्मराक्षसाः विद्वांसः-यज्ञतन्त्रज्ञाः छिद्रं-अपचारं मृगयन्ते । ते चेषदपचारं दृष्ट्वा स्वयं तेषु प्रविश्यापचारधारां संपादयन्ते-ति. |
114 | -4 | नान्यं जानाति । सदा पित्रनुवर्तनात् अन्यं कमपि विषयं, पुरुषं वा न जानाति । हेतुत्वे प्रतियोगित्वे वा पञ्चमी । 'नित्यं' इति स्थाने 'मर्त्यं' इत्यपि पाठः । तदा स्पष्ट एवार्थः ॥ |
116 | -12 | विभण्डकसुतं । अस्य 'आनाय्य' इति पूर्वश्लोके-नान्वयः ॥ |
111 | -18 | ऋश्यशृङ्गस्तु जामाता ॥ अङ्गराजमित्रत्वस्य राज्ञि वक्ष्यमाणत्वेन मित्रजामाता स्वस्यापि जामातैव-ति.
दशरथस्यौरसी शान्ता, दत्ता रोमपादस्य-गो. शान्ता रोमपादस्य सुतेति कतककारादयः, दशरथस्य सुतेति गोविन्दराजादयः । अत्रेदमवधेयम्–'ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव' इत्यत्र 'तव जामाता' इत्यन्वयः गोविन्दराजसम्मतः । शान्ता दशरथस्यौरसीति च तत्सम्मतम् । कन्या चास्य महाभागा शान्ता नाम भविष्यति (11-3) इत्यत्रापि शान्ताया दशरथसुतात्वं स्वरसतः प्रतीयते । एवमन्वयस्य रामायणशिरोमणिकारसम्मतत्वेऽपि 'रोमपादमित्रत्वाद्दशरथस्य, रोमपादजामातुः दशरथजामातृत्वेन व्यपदेशः' इत्येव तदाशयः ॥ उत्तरत्र 'शान्ता तव सुता' (11-19) इति रोमपादं प्रति दशरथोक्तिः दृश्यते । तत्र शान्ताया रोमपादसुतात्वं स्पष्टं । दशरथेन दत्तत्वात् तथा व्यपदेश इति गोविन्दराजाशयः स्यात् । तत्रैव 'सख्यं सम्बन्धकं चैव' (11-18) इत्यनेन दशरथ- |