पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२७

पुटमेतत् सुपुष्टितम्
462
[बालकाण्डः
धनुर्भङ्गः



 भवतोऽनुमते ब्रह्मन् ! शीघ्रं गच्छन्तु मन्त्रिणः ।
 मम, कौशिक ! भद्रं ते, अयोध्यां त्वरिता रथैः ॥ २४ ॥

 भवतोऽनुमते-निमित्तसप्तमीयं-अनुमतकृत्यसाधननिमित्तमित्यर्थः । मन्त्रिणः अयोध्यां गच्छन्त्विति योजना ॥ २४ ॥

 राजानं[१]प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ।
 प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥ २५ ॥

 सर्वशश्चेति । सर्वमप्यत्रत्यवृत्तान्तमिति शेषः ॥ २५ ॥

 मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै ।
 [२][३]प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः॥ २६ ॥
 कौशिकश्च तथेत्याह राना चाभाष्य मन्त्रिणः।
 अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ॥ २७ ॥
 यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तषष्टितमः सर्गः

 आभाष्य-आहूयेति यावत् । कृतशासनान्-दत्तकल्याणसन्देशपत्रिकानिति यावत् । दार(२८)मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तषष्टितमः सर्गः


  1. प्रश्रितैः-विनयसहितैः
  2. प्रीतियुक्तं तु-कु.च. ज. झ
  3. प्रीतियुक्तमिति क्रियाविशेषणम्-ति.