दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।
सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ १६ ॥
यदि वो रोचते [१]वृत्तं जनकस्य महात्मनः ।
पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः ॥ १७ ॥
यदि वो रोचते इति । यौनसम्बन्धयोग्यमिति इति शेषः । पर्ययः-अतिक्रमः ॥ १७ ॥
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः । सुप्रीतश्चाब्रवीद्राजा वो यात्रेति स मन्त्रिणः ॥ १८ ॥ श्वो यात्रेत्यब्रवीदिति। तदर्थमुद्यमध्वमिति शेषः । मन्त्रिण इति । जनकमन्त्रिण [२]इत्यर्थः ॥ १८ ॥
मन्त्रिणस्तां[३]नरेन्द्रश्च रात्रिं परमसत्कृताः ।
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैस्समन्विताः ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टषष्टितमः सर्गः
गुणैः-सत्कारातिशयैः । नरेन्द्रश्च प्रमुदित उवासेति विपरिणामः । धैर्य (१९) मानः ॥ १९ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टषष्टितमः सर्गः