विघ्ना इति । कन्याप्रदानप्रतिबन्धा इत्यर्थः । राघवैस्सह सम्बन्धः यतः प्राप्तस्ततः पूजितामिति योजना ॥ ११ ॥
[३]नरेन्द्राणामपीन्द्रो नरेन्द्रन्द्रः । यज्ञस्यान्त इति । त्रिचतुर्दिनानन्तरभाविनीति शेषः ॥ १२ ॥
तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः ।
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ॥ १३ ॥
प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ।
यथा वक्ष्यसि धर्मज्ञ ! तत्करिष्यामहे वयम् ॥ १४ ॥
प्रतिग्रहः-कन्यागवादीनां प्रतिग्रहः दातृवश एव–यदि ददाति–गृह्यते प्रतिग्रहीत्रेति वस्तुस्थितिः । एतत् युष्मदीयं वीर्यशुल्कं कन्याप्रदानविषयं, पुरा पूर्वमेव श्रुतम् । अतः परं कन्याप्रदस्त्वं यथा वक्ष्यसि तद्वयं करिष्यामहे ॥ १४ ॥
धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः ।
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ॥ १५ ॥
परं विस्मयमिति । कन्याया वीर्यशुल्कत्वेन जितत्वात् तदनुमत्यनपेक्षणत्वेऽपि 'प्रतिग्रहो दातृवशः, यथा त्वं वक्ष्यसि [४]तद्वयं करिष्यामहे' इति राज्ञो लौकिकवचनचातुरीदर्शनाद्विस्मयः ॥ १५ ॥