इति श्रुतिरिति । पुरातनकथेत्यर्थः । सगरं-गरसहितं । भक्ष्यामिति शेषः ॥ २७ ॥
ततः शैलवरं रम्यं बभूवाभिरतो मुनिः ॥ २८ ॥
भार्गवश्चयवनो नाम हिमवन्तमुपाश्रितः ।
ततश्शैलवरं रम्यं हिमवन्तमुपाश्रितो भार्गवश्चयवनो मुनिः तत्रैव हिमवति अभिरतो बभूव ॥
तत्र चैका महाभागा भार्गवं देववर्चसम् ॥ २९ ॥
ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मनः ।
तत्र चैकेति । प्राशितगरेति यावत् ॥ २९ ॥
तमृषिं साऽभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ ३० ॥
स [३]तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।
कालिन्दीति तस्या नाम । अभ्यवादयच्चेति चकारेण शुश्रूषणमप्यकरोत् ; पुत्रार्थमित्यर्थः । पुत्रमाप्तुमिच्छुः पुत्रेप्सुः । पुत्र-जन्मनि-पुत्रोत्पत्तिविषये ॥ ३० ॥
तव कुक्षौ महाभागे ! सुपुत्रः सुमहाबलः ॥ ३१ ॥
महावीर्यो महातेजाः अचिरात्सञ्जनिष्यति ॥
[४]गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥ ३२ ॥