पुटमेतत् सुपुष्टितम्
७४ सर्गः]
501
मार्गे परशुरामस्तु समागच्छत् सुदुस्सहः
भार्गवं जामदग्न्यं तं [१]राजराजविमर्दनम् ॥ १७ ॥
कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ।
कैलासमिवेति । अनेन महाकारत्वमुक्तं । दुर्धर्षं-अशक्याति- क्रमम् ॥१७॥
पृथग्जनः-पामरजनः । विद्युद्गणोपमत्वं प्रभातिशयवत्त्वे दृष्टान्तः । त्रिपुरघ्नं यथा-रुद्रमिव स्थितमित्यर्थः ।‘अमनुष्यकर्तृके च' इति हन्तेष्टक् ॥ १९ ॥
जपहोमेति । यद्यपि तत्काले न समस्ति मुख्यहोमः, अथापि अपाने जुह्वति प्राणम्' इत्याद्युपदिष्टो गौणः ॥२०॥
संगता मुनयः सर्वे संजजल्पुरथो मिथः ।
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ २१ ॥
कच्चिदिति विमर्शः ॥ २१ ॥
- ↑ राजा-ङ. ज.
- ↑ चासज्य-ङ. ज.
- ↑ शरमुग्रं-ङ.ज.
- ↑ एतदनन्तरं यथा कृष्णगतिं घोरं युगान्ते प्रोद्यतं तथा । इत्यधिकम् -ङ
- ↑ होमः मानसः-गो. जपहोमपरायणत्वमुपलक्षणम् । अतएवाग्रे संजजल्पुरिति सङ्गच्छते । अन्यथा तादृशहोमादिपरायणानां जलासंभवादित्याहुः-ति. परंतु 'संजजल्पुरथो मिथः' इत्यत्र अथशब्द स्वारस्यान्न विरोधः । प्रथमं शान्त्यर्थं जपादिकं किञ्चित्कृत्वा ततः संजजरुपुरित्यर्थः ॥