पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७८

पुटमेतत् सुपुष्टितम्
७६ सर्गः]
513
रामस्तु रोषितस्तेन तस्माज्जग्राह तद्धनुः

 श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव !
 [१]अनुरुध्यामहे ब्रह्मन् ! पितुरानृष्यमास्थितः ॥ २ ॥

 श्रुतेत्यादि । पितुरानृण्यं-पितृघातृक्षत्रवधेन पितृवैरशुद्धिं आस्थितस्सन् यत्कर्म-त्रिस्सप्तकृत्वः क्षत्रवधरूपं कृतवान् असि तच्छ्रुतवानस्मि । तदेनमनुरुध्यामहे-[२]अनुरुन्ध्मः-अङ्गीकुर्मः, अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात्, [३]कर्तरि यगार्षः ॥ २ ॥

 वीर्यहीनमिवाशक्तं [४]क्षत्रधर्मेण भार्गव !
 अवजानासि [५]मे तेजः पश्य मेऽद्य पराक्रमम् ॥ ३ ॥

 अपि तु वीर्यहीनं अत एव क्षत्रधर्मेण प्राप्ते धनुर्ग्रहयुद्धादौ अशक्तमिव मन्यमानो यन्मां अवजानासि, 'क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व' इत्यादिवचनेनावमानं कृतवानसि, तन्नानुरुध्यामहे । 'अस्मदोर्द्वयोश्च' इति चकारादेकस्मिन्नपि बहुवचनम् । यदेवमतः- तेज इत्यादि । तेजः-पराभिभवासहनं । तच्च तच्च तन्मूलं पराक्रमं स्वशक्त्या पराभिभवनरूपव्यापाररूपं च पश्य ॥ ३ ॥

 इत्युक्त्वा राघवः क्रुद्धो भागर्वस्य शरासनम् ।
 [६]शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥ ४ ॥

 इत्युक्त्वा क्रुद्धः-प्रागुक्तरूपावमानवचनेन [७]क्रुद्धः । एवं क्रोधाविष्टत्वादेव तद्धस्तात्स्वयमेव धनुरादेर्बलात् प्रतिग्रहः । लघुः-शीघ्रः पराक्रमो यस्य स तथा ॥ ४ ॥


  1. अनुरुन्ध्यामहे-ज.
  2. अनुसरामः-ग.
  3. 'अनो रुध कामे' इति धातुवोऽयम्
  4. क्षत्रधर्मेण स्थितं, अत एव अशक्तं-ब्राह्मणोद्देश्यकातिभाषणासामर्थ्यरहितं मां स्वं वीर्यहीनमिवावजानासि-शि.
  5. मां राम-ङ.
  6. चात् भार्गवनिष्ठां वैष्णवीशक्ति.....अग्रे वक्ष्यति 'निर्वीर्यो जामदग्न्योऽसौ' इति-ति.
  7. क्रोधः-घ.