कुत एवमित्यतः-न ह्ययमित्यादि । वीर्येण-स्वशक्त्या शत्रूणां बलजदर्पविनाशनः ॥ ८ ॥
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः।
पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ ९ ॥
वरायुधं-वैष्णवं धनुः । सर्वतो रामाभ्युदये-निजावतारत्वादेव सदेवगणपरिकरस्य भगवतो ब्रह्मणो दिदृक्षया आगमनं भवति । "अनुग्रहात्तदंशानां तत्प्रेम्णाम्" इत्युपनिषद्रहस्यात् । नैवं क्वचित् कस्यचिदप्यभ्युदये भगवतो दिदृक्षाप्रवृत्तिः । एवं प्रतिसर्गभगवदनुग्रहप्रसंगोपबृंहितत्वादेवेदं रामायणामृतं ब्रह्मकुलजीवातुः ॥ २ ॥
एवं वरधनुर्धरे रामे-अधिकरणे, तदाऽऽलोके-तस्य भार्गवस्याऽऽलोके ; सति सङ्क्रान्त इति यावत् । तथा[३]पुराणे-"ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत्" इति । अत एव भार्गवे जडीकृते-निर्वीर्ये सति, योऽसौ निर्वीर्यो जामदग्न्यो रामः राममुदैक्षत । उद्भूतविष्णतेजस्कमपश्यदित्यर्थः । तथैव जामदग्न्यो वक्ष्यति । त्वां मधुहन्तारं जानामि" इति ॥ ११ ॥