राजप्रवेशसुमुखैः पौरैर्मङ्गल[१]वादिभिः ॥७॥
संपूर्णां प्राविशद्राजा जनौधैः समलङ्कृताम् ।
मङ्गलं-आशीर्वदनं वदितुं शीलमस्त्येषामिति तथा ॥७॥
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः॥ ८ ॥
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ॥
श्रीमद्भिरिति । दारपरिग्रहादधिकलक्ष्मीवद्भिः ॥ ८ ॥
प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ॥ ९ ॥
ननन्द सजनो राजा गृहे कामैः सुपूजितः।
हिमवत्सदृशामिति । अनेन सुधालेपजधावल्यमौन्नत्यं च लक्ष्यते । सजनः-सबन्धुजनः गृहे विद्यमानः । काम्यन्त इति कामाः विषयभोगपरिकरस्रक्चन्दनाभरणादयः तैः सुपूजितः-प्राप्तपूजा प्राप्तानन्द इत्यर्थः ॥ ९ ॥
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥ १० ॥
वधूप्रतिग्रहे [२]युक्ता याश्चान्या राजयोषितः ।
वधूनां-स्नुषाणां प्रतिग्रहः-आरात्रयादिमङ्गलाचारपूर्वकः । राजयोषितः-दशरथपत्न्यः ताश्च वधूप्रतिग्रहे युक्ताः ॥ १० ॥