तस्य भूयो विशेषेण मैथिली जनकात्मजा ॥ २७ ॥
देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।
देवताभिस्समेति । मानुषावतारेऽपीति शेषः । अत एव श्रीरिवेति उपमाऽपि श्रिया एव सत्या। अत एवोत्तरश्लोकोपमाऽप्युभयोः ॥
तया स राजर्षिसुतोऽभिरामया ।
समेयिवानुत्तमराजकन्यया
अतीव रामः शुशुभेऽतिकामया
विभुः [१]श्रिया विष्णुरिवामरेश्वरः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां
संहितायां बालकाण्डे सप्तसप्ततितमः सर्गः
समाप्तश्व बालकाण्डः
[२]अदुःखमानः (२८ १/२) सर्गः ॥२८ १/२ ॥
बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।
श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ॥
इति श्रीमद्रामायणामृतकतकटीकायां श्रीमन्माधवयोगिविरचितायां
बालकाण्डे सप्तसप्ततितमः सर्गः
बालकाण्डव्याख्या समाप्ता
यस्सर्वोपनिषद्व्याख्या मङ्गलाभरणं व्यधात् ।
[३]ब्रह्म जिज्ञासतां तस्मै नमो माधवयोगिने ॥