पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७४

पुटमेतत् सुपुष्टितम्
१ सर्गः]
7
नारदं प्रति वाल्मीकिप्रश्नोपक्रमः

पाणिनिपतञ्जल्यादीनाम् । निर्धारणे षष्ठी। वरं-तदन्यूनतया तत्त्वविदमिति यावत् । मुनिशब्दो व्याकृतार्थ: । मुनिपुङ्गवमिति । 'सप्तमी' इति योगविभागात्समासः । 'न निर्धारणे' इति निषेधात् षष्ठीसमासोऽशक्याश्रयः । पुमांश्चासौ गौश्च पुङ्गव इति, 'गोरतद्धितलुकि' इति टप् समासान्तः । व्युत्पत्तिमात्रमिदं । श्रैष्ठ्ये रूढस्तु पुङ्गवशब्दः । एवंविशिष्टं नारदं । तपस्वी- गौणमुख्यतपोयुक्तः । तत्र तप इति 'तपो नाऽनशनात्परम्' इति श्रुतेः कृच्छ्रचान्द्रायणैकादश्युपवासादिलक्षणं मुख्यतपः । 'मनसश्चेन्द्रियाणाञ्च ह्येकाग्रथं परमं तपः इत्यादिश्रुतं गौणम् । एवंभूतो वाल्मीकिः प्रपच्छेत्यन्वयः । अत्र प्रष्टुरुक्तविशेषणेन दिव्यकाव्यविषयादिश्रवणाधिकारसम्पत्तिर्द्योतिता । वक्तुरप्युक्तविशेषणैः क्रमात्प्रतिपादनापेक्षितं सर्वज्ञत्वं वाग्मित्वं च प्रतिपादितम् । ग्रहणधारणसिद्धिहेतुशिष्यानुग्रहशक्तिमत्वं च प्रतिपादितम् ॥ १ ॥

 कोन्वस्मिन् सांप्रत लोके गुणवान् कश्च वीर्यवान् ।
 धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥

 किं पप्रच्छेत्यतः प्रश्नाभिनयः-को न्वस्मिन्नित्यादि । नुशब्दो वितर्के । सांप्रतं-संप्रतिपर्यायं स्वरादित्वादव्ययं । वर्तमानकालेऽस्मिन्लोके भूलक्षणे को नु गुणवान् ? भूमप्रशंसादौ मतुप् । सहजनित्यानन्द (नित्य) कल्याणगुणवान् को नु दिव्यः पुरुषः ? अस्यैव प्रपञ्चः कश्च वीर्यबानित्यादि । दिव्यास्त्रबलादिजः शक्तिविशेषो वीर्यम्। वीर्यवदिदमौपधमित्यादौ शक्तिविशेषे सुप्रसिद्धो वीर्यशब्दः । सकृद्व्याकृतश्शब्दः पुनर्न व्याख्यायते ; ग्रन्थगौरवात् । अतस्तत्र सा व्याकृतिर्हदि धार्या । [१]धर्मज्ञश्च-श्रौतस्मार्त सकलधर्म[२]रहस्यज्ञश्च । बह्वीमाप्यपकृतिमुपेक्ष्य एका-


  1. कश्च श्रौत - ग.
  2. रहस्यशः - क.