अथ ते सीतारामलक्ष्मणा वनेन-पुरोवर्तिवनप्राप्तिद्वारेण वनं-अपरं वनं गत्वा; वनमिति जात्या; बहूदका नदीश्च तीर्त्वा 'श्र्युकः किति' इतीण्निषेधः । अनु–पश्चात् चित्रकूटं प्राप्य भरद्वाजस्य शासनात् तत्र रम्यमावसथं-पर्णशालां कृत्वा तत्र रममाणाः देवगन्धर्वसंकाशाः ते त्रयः तत्र वने सुखं न्यवसन् ॥ ३-३१ ॥
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ॥ ३२ ॥
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।
चित्रेत्यादि ॥ रामे चित्रकूटं गते सति तदा पुत्रशोकातुरो दशरथो राजा सुतं स्मृत्वा बिलपन्-परिदेवनं कुर्वन्नेव तद्दुःखवशात्स्वर्गं जगाम ॥ ३२ ॥
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ ३३ ॥
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
तस्मिन् दशरथे गते-मृते भरतस्तु वसिष्ठप्रमुखैर्द्विजैस्त्रैवर्णिकैस्सह मंत्रिवृद्धैः राज्याय नियुज्यमानो महाबलः-राज्यं कर्तुं समर्थोऽपि सौभ्रात्राद्राज्यं नैच्छत् । राज्यायेति 'तुमर्थाच्च' इत्यादिना चतुर्थी ॥३३॥
स जगाम वनं वीरो रामपादप्रसादकः ॥ ३४ ॥
वीरो व्याकृतः । स भरतो रामपादप्रसादकः 'तुमुण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल । पादशब्दः पूज्यवाची। पूज्यं रामं प्रसादयितुं जगाम ॥ ३४ ॥
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
अयाचत् भ्रातरं राममार्यभावपुरस्कृतः ॥ ३५ ॥