पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
वीरवैरागिचरितम्


लम्पटो दैवस्य दौर्दम्यत्वे दूनचेतोऽभूच्छूनशरीरश्च शातनशतशम्योनैव। संगर श्रीसंविभागशौण्डश्चस्तेनदस्युप्रियोऽभूत्न तु सौहार्द सौहित्य- प्रेप्सुः सौभाग्यजुष्ट: धैर्यव्यक्तिकामो व्यसनेषु मन: आससञ्ज व्यसन युक्तमनसां मोक्षे तु नैव। अविनयबाहुल्यदर्शी विनतानाम् मूर्घ्नश्चकर्त अभद्रसारवर्षीमूढानां मतिं प्रशशंस, अलब्धलाभार्थी चापि लब्धप्रणाशी, अरक्षितलब्धश्च विवृद्धिद्वेषी। , विवृद्धिमुक्तश्च तीर्थप्रतिपादनपरवशः परमर्मस्फोटनपरः परधर्मत्रोटनतितिक्षुः स्वमतावलम्बिलिप्सुः परमत- भेदनभिक्षु:, भैरवाकारो भीभृताम् , शौर्याचार्य: श्रीमुषाम् , धैर्याधारो धीमुषाम् , मृत्युरिवापरो मनोमुदाम् , मृगयुरिवेन्द्रियमृगाणाम् हृद्यपि हर्षं नोवाह विहितविविधविधोपधाधृद्धृतिवृत्तिवृत्तेभ्यः।

 यस्य च प्रतीपभाव एव प्रतापो विद्वेष एव विलासः परपरिताप एव परिहासः विभवनाश एव प्रकाश: विद्वद्ध्रास एव विनोदः दुरोदरधौर्त्यमेव विनयः कुराणकर्मेव कृत्यम् पुराणमर्मैव भेद्यम्; किं बहुना, बाल्य एव सोऽतीवोद्दण्डो ज्येष्ठभ्रातृकदनेन पितृबन्धनेन च बद्धपरिकरो गृहकलहे, कलिकाल इवाकीर्तिमान् बलिरिव बलीयान्, अधर्म इव द्रढीयान् अबलानामपकर्षणे रेमे न परिरक्षणे सतीनां सन्तापे सन्तुतोष विलापेऽविह्वलो बभूव । असतां सन्तोषे सञ्जहर्षे न विलोपे । सतां सम्मोहने समतृप्यत् न संज्ञापने । विशां वेशपरिवेषे विह्वलोऽभून्न परिमोषे । ब्राह्मणानां भर्मभोगे भर्तृत्वमवाप क्षत्रियाणां क्षतात्त्राणपरत्वे मात्सर्यमुवाह शुनासुदारणपरांश्च शूद्रानेव शून्योदरान् विधायानुदारधी: शुल्कदानैः दायविभागैश्च दुर्दैवदुर्विपाकात् कौराण- परिपाट्या परिवर्त्य पराभवनिरीहान् परिभवनिष्प्रत्यूहाँश्च भावयित्वा भृत्यभूतान् भृतिभरान् भारयित्वा भुवि भारतीयताकलङ्ककूटान् कृत्वा पदोन्नतिभिः प्रलोभ्य परिवारैरेव सम्भायै स्वसम्बन्धिसौभाग्य- सौधमधरी चकार ।

 आततायिनोऽस्य हेतिततितष्टतालवोऽनेकेयुवानः सौन्दर्यप्रतिमाः बालाः प्रवरवयोवृद्धा: वृद्धाश्च इस्लामतावलम्बलिप्सुकाः पञ्चत्वमवापुः । पञ्चतत्त्वतिरोहिताश्च तिरस्कारतीक्ष्णदाहदग्धाश्च तेऽसृक् प्रवाहपूरैः स्वजन्मभुवो भक्तिमत्त्वमगमन् । परासवोऽप्यनपास्तासवस्ते युगपरिवर्तपरमाणव इव परमर्मघट्टनकुशलान् कृशानुस्फुर्ल्लिङगानेव स्फारयामासुः। साक्षादस्य देशस्य शिवस्पृहः संसारसम्भवस्थिति-