सुरम्यारामरमणरमणीय रमणीरामणीयरागाङ्गभूतचत्वररङ्गम् स्वमार्यदेशम् दयमानः स्वजन्मभूमातरं चोदासीनां संविभाव्य यवनाधिराज- विचारविरोघितत्त्वभूतसत्त्वसंहारसंकटविकटावस्थावसथं स्वं सोपाल- म्भमेव तिरस्कुर्वाण आत्मानं तस्या: निरीहं सुतं चाकलय्य लज्जमान: यचनाधमकरटिकटिकुत्सितकर्म च जुगुप्समान: एकमेव जातकं गोविन्दसिंहं जननीद्वयक्रोडक्रीडापरं खे जले च केलिं कुर्वाणं शशिनमिव जनयित्वा स्थानात्स्थानं भ्राम्यन् आनन्दपुरात् पुरात् स्वात् निश्चक्राम । निर्गतश्चासौ पाटलिपुत्रधामादिप्रदेशान् हिण्डमानः शिष्यवर्गाय स्वकर्तव्यं च शिक्षयन् यवनाधमस्य हिन्दुद्विषोऽवरङ्ग- जीवस्य विनाशाय बद्धपरिकरो गतः आग्राप्रदेशं भृत्यैर्यवनराजस्य राजापकार्यपराधदूषितः राजापायशङ्कया द्रागेव निगडितो दिल्लीपुरं निन्ये । नीतश्च क्रूरान्तरात्मना यवनाधिपेनावरङ्गजीवेन इस्लामधर्म- दीक्षापरत्वाय प्रचोदितः प्रघर्षितो बाधितश्च यदा नामन्यत सः तद्धर्मदीक्षास्वीकृतिं तदा तस्यैव पुरस्तात् तस्य शिष्यो मतिदास- नामाऽऽशीर्षपादं प्रविदार्य देहं दयालुसंज्ञोऽप्य दयालूकस्तै: ज्वलज्ज- लकटाहे प्रक्षिप्तोऽतिराक्षसं च तत्कर्म प्रत्यक्षम् विलोक्यापि यदा स्वधर्म- निधनापेक्षी न मनागपि चचाल चेतसि भयावहमिस्लामधर्मं च न स्वीचकार तदा शिरः कर्त्तनमस्य निर्दिदेश नराधमः । नारिकेलसहितं पणपञ्चकं गोविन्दगौरवदीक्षाचिह्नम् विकल्प्य शिष्यान् स्वसुतरक्षणाय विज्ञाप्य निजान्तकालमभिसमीक्षमाणः आनीय चान्दनिचौकनाम्नि विशालचत्वरे इष्टिपशुम।रं मारणाय निर्णीत: वन्यैर्विर्हिम्स्रश्वापदैरिव वधकैस्तत्र शिरःकर्त्तनाय कल्पितः वधकेनैकेन सर्वजनसमक्षमेव कबन्धा- न्नि:शिरस्क: कृतः। शिरस्तदस्य कृपाणलून: विचेष्टमाण एव कबन्धा- द्यावदेवव्ययुज्यत तावदेव हाहाकारध्वनिरुज्जगाम सर्वशः । नराधम- नारकीणनृशंसनानाराशंस्यं नैर्घृण्यनिष्ठं निरीहं नृत्यत्कबन्धक्रूरं कर्म तदीयं विभाव्य विधिनापि वेधोविकारमाकलय्य जगतमपुण्यैरेव पुण्य- कृतोऽस्यापुण्यभावत्वमापन्नमिति विश्वासो व्याप्तिमापत् । तेग- बहादुरस्य 'तेग' तिग्मधाराधराशायितमुत्तमाङ्गमुत्तममाङ्गत्वमवाप- रजोरूषितं सदपि द्युषदां शोकसौहार्दसंवेदनापरत्वात् । अथोच्यते हि पुंसामपुण्यैः पुण्यैर्वा दुर्भाग्यसौभाग्यसम्पत्संविधीयते । अत एव पुण्य भाजां केषाम् शताब्दचतुष्टये वेदविद्याविनाशविनष्टचेतसामनिष्टारिष्ट- रोषदोषत्वाद्यज्ञहोमाहुतिहुतः इष्टिपशुमारं मारिताः आबालवृद्धम् स्त्रीपुरुषाः परं धर्मग्लानावधर्माभ्युत्थानावस्थायां धर्मस्य पुनरुज्जीव-
पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२२
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
वीरवैरागिचरितम्