मनुभवन् प्रकाशप्रयाणभूमावागन्तुमपि यदा नोत्साहमकरोत् तदैव तदीय
कातरत्वं निगूहितु कामाः मुल्लाह काजीवर्याः धर्म संरक्षकव्यवहार
व्याजविघाविधानशीलाः आबालवृद्धं समर्थजनं सैन्यदलपरियोजनाय
प्राचोदयन् । मुसलमानविद्वेषदष्टाश्च हिन्दुजनाः तथैव येतिरे यथा
देशोदास्यशृङ्खलाभिर्न संयोज्यताम् । चतुर्धाविभक्ताश्च शिष्याः
चतुरङ्गबलसमुदयं संविदानाः लवपुरं केन्द्रबिन्दुम् विधाय भरताभिधग्राम
वास्तव्यग्रामाक्षपटलिकदायदत्तं दुर्गं चतुर्द्वारमग्निगृहकल्पं विचार्य
शत्रुसंहारविधानशीलाः प्राणपणेनापि भूभारती संरक्षणकृतप्रतिश्रुतयो-
ऽहर्निशं वीवधासारप्रसारप्रतीक्षणपराः शत्रुयोधयुद्धघस्मरा इव श्वापदाः
नीतोरपि नयन्त: तथा संमिलिताः यथा नाम न कोऽपि तेषां युगान्तरेषु
गर्हणां कथयितुं पारयति । शत्रवोऽपि दान प्रतीक्षाः आसनमादधानाः
दुर्गपरिवारयन्तः मौहम्मदनामधेय जयकारान् कथयन्तः 'जेहाद’ भाव
माकारयन्तः आक्रोशैर्विक्रोशमानाः स्वाश्वद्विपपदातीन् तथा व्यधापयन्
लवपुरामृतसरगुरुदासपुरान्तर्गतं रियार्कीकन्धीग्राम पटलमधिष्ठाय
शिष्यगणा: सैन्यदलैः स्वकीयैः भगवानायदुर्गगताः मुसलमानैः परित
आक्रान्ताः हैदरीकेतुश्चात्रागतः। सैन्यद्वयस्य गुलिकास्त्रवृष्टि प्रहारास्त-
थाविघा अभवन् यथा नाम शवा एव शयानाः भूतधात्रीक्रोडभूषाभूताः
बीभत्साकारमेव दृश्यं प्रास्तुवन् । रक्तरञ्जिता च भूरसृक्प्रस्रविणीव
प्रातीयत । शिष्याश्च तद्दुर्गान्निःसृत्य शत्रुसंघ प्राकारान् प्रस्फोटयन्तः
निमिषमात्रेणैव दुष्प्रापा अभवन् । दुर्जेयव्यवहाराश्च सन्तः ते तेभ्यः
कान्दिशीकेभ्यः कदर्य्या: अभवन् । कदपंताश्च कदर्यहतकास्तान्
मन्यमानास्ते हिन्दूंश्च तर्जयन्तो निराकुर्वाणाः स्वप्रशासकमपि
कदर्थयितुमारब्धा: ।
संज्ञातसाराश्च समेतवीरा:
शिष्याः शिखाबद्धगताश्च रोषम् ।
सिम्हास्यदम्ष्ट्रालमुदारवेशम्
सन्धाय सङ्ग्रामरताः बभूवुः ।। ३ ।।
रुद्धाश्चते दुर्गगता: सुधीरा:
शस्त्रास्त्रगोलैश्च हतान्विरुद्धान् ।
तान् शत्रुयोधांश्च निरोधमुक्तान्
सर्पानिवाभास्य गताः हि तोषम् ।। ४ ।।