शिवालिकगिरिकूटस्थांश्च विद्रोहिसामन्तान् दण्डयितुं पुनरपि प्राचलत् ।
कहलूरसामन्तो भीमचन्द्र एव वेरागिवीरस्य रोषदोषनिषधो जातः
कुतो विभ्रमभ्रान्तो हि वैरागिवीरो यदसौ गोविन्दगुरोः प्रगतौ
वैरीपक्षगतो विपक्षभूतो विद्रुग्धः देशं स्वकीयमेवसम्मानसोपाना-
दधरीचकार । विलासपुरदुर्गविधेयीभूतश्च भीमचन्द्रः जालन्धरक्षेत्र-
सामन्तसहितः सर्वाश्च पर्वतकीयानपि सामन्तान् एकत्रीकृत्य रक्षाहेतोः
पार्वतीनां चमूनां यमपि पुरुषार्थं कृतवान् विभ्रमभ्रान्तो वैरागि-
वीरस्तमेव स्वावेशदोषेण विफलीचकार भीमचन्द्रप्रमुखसामन्त-
राजकसहयोगमपोह्य सः स्वसैन्यदलैः बिलासपुरदुर्गमेवेष्टकाचयतां
निनाय । गिरिदुर्गगताश्च केसरिणः सकिशोरा एवेष्टिपशुमारं
मारिता : मृतकायसमवायसमवेता: सक्रोष्टुविक्रोशं विलुप्यमाना:
सपूतिगन्धं शतद्रुसरिस्प्रवाहपूरमेव व्यनशिरे । वैरागिवीरश्च स्व-
विजयपताकां गिरिदुर्गगतां कारयित्वा सौभाग्यमात्मीयं सुभगं
मन्यमान: नैतद्विममर्श यत्स्वकीयसामन्तसौहार्दमोषम् मोषम् विदेशिवैरी-
दोर्दण्डदीर्घीकारं कारं स्वदेशस्य विदेशविधेयत्वमेव भविष्ये
निश्चप्रचम् । भीमचन्द्रपराजयपरिश्रस्ताश्च पर्वतीयाः सामन्ता:
वैरागिवीराय करदीकृतो बभूवुः । केचिदुपरोधं परिहरन्तः प्राणमन्
पुरस्तात् । केचित् शिविरमस्य समागत्य सैन्यदलसदस्यीभूताः
श्रद्धालवः शत्रुसमुदाय समुदयसंरोधाय प्रतिश्रुतवन्तः । सोपहाराश्च
सोपधिविहितान् चरांश्चेष्टिपशुमारममारयन्तः वैरागिवीरयश:
पताकां प्रास्फारयन् । मण्डीशास्ता च सिद्धसाई - सामन्तराजः
करदीकृतराजसु सर्वश्रेष्ठ: नानकगोविन्दगुरुद्वयदर्शनप्राग्रहरः
वैरागिवीराय निष्कारणविधेयीभूतः सर्वकालं सहयोगदानाय प्रति-
ज्ञातवान । स: वैरागिवीराय चित्रदुष्करकरणकल्पं कल्पशास्त्रग्रन्थमपि
समर्पितवान् । कुलूतराजेन सहितो वैरागिवीरश्चित्रदुष्करकरण-
समुदायमभ्यस्यन् कुलूतराजस्य छद्मकरणस्याधारभूतः कालायस-
पञ्जरविनिवेशित: तन्त्रावशुद्धये परिकल्प्यमानः सोपधि तन्त्रयुक्ति-
कल्पनाध्ययनव्यपदेशविधेयीकृतः कुलूताजद्वेषदूषितः पञ्जरविनि-
वेशितः बन्धनबद्ध इव पाटच्चरः देशद्रोहिराजस्य कूलूतराजस्य
कूटयोगयोजित: बहादुरशाहबन्दीग्राहमेवांपेक्षमाणः प्रत्युत्पन्नमतित्वात्
द्रोहिद्वेष्यद्विषद्विघाताय प्रतिजानानः कुशीलवकुलकर्मक्रियालुः पञ्जर-
द्वारोदघाटनयुक्तियोग-सन्धान श्रद्धालुः कुलूतराजचक्रव्यूहभङ्गं च
विद्यायाभिमन्युरिव कौरवकुलकलङ्की परिवारपरिघपरिवेष्टितः
पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५६
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
वीरवैरागिचरितम्