पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
अथ चतुर्थ उच्छ्वासः



 म्लेच्छैरुद्वि ज्यमाना भूः
 वर्णाखडार तर्जिता ।
 कौशिकै: घृत्कृताढ्या हि
 केशिभि: कीर्णकल्मषा । २९ ॥


  द्रोहागतिर्देशगता न दम्या
  भीभैरवीध्वान धृता च म्लेच्छै: ।
  संसारसञ्चार विकाररोहे
  दैत्यैकध्रर्त्तिर्ननु वर्धनाढ्या ।। ३० ।।


 पापस्य पोषः प्रविसर्पमाणः
 धर्मेकदोषश्च वितीर्णरूपः ।
 कालास्यकण्ठै: कवलीकृताश्च
 केका रवाः आर्त्तरुतैर्निलीनाः ।। ३१ ।।


  ऋतम्भरा भारतभूर्विपन्ना
  द्विष्टैर्धृता घर्षितभावनीना ।
  मृत्युञ्जये जापरता न जाता
  वेदेस्मृति विस्मृतिमादधाना ।। ३२ ॥


 सप्ताहाभ्यन्तर सप्तशतं मृतमुण्डानां धराशयिभूतं रुधिर- प्लावविसरसंलिप्तं सत् तरुशाखास्वपि कबन्धकदम्बावलम्बसङ्कटं वलिभुग्गृध्रकूट कवलनविकटं बीभत्सदर्शनं वैरागिवीरमनोविक्षोभदुर्धरं धर्मेदार्ढ्यधुरां वीरधौरेयस्य नाधरीचकार । नीरन्ध्रान्धकारबहलां कारामधिवसन् वैरागिवीरः निश्वसितुमपि न शशाक । वृश्चिकाशी- विषविसर्ग बहुलायामस्यां विषविस्फूर्जित विकारविहितमोहनोऽसौ सर्वतनोऽपि निश्चेतन न एव साहसविसरं विसस्मार । दयनोयदशामस्य पश्यन्तोऽपि ते देशदोषविमुखाः मृतपूर्वमपि मारणाद्विरमन्तः सदाक्षिण्या एव प्रतीयन्त ।

 प्रभातायां रजन्यां कस्यां नग्नासिघृतप्रहरिद्वयेनानवृतकपाटं द्वारं विलोक्य वैरागिवीरः स्वकीयां चरमवेलामनुमीय सर्वेकर्त्तारं विधातारं ववन्दे ।