पर्यम् । तत्र रोगशान्यादिचतुरवयवंफलकप्रयोगकथनोत्तरं ततदवयवमात्रफल-
कानां प्रयोगाणां वक्ष्यमाणस्वात् । अत एव दीर्घायुष्यपदस्याप्ययमर्थः सिद्धधति ।
दीर्घ पूर्णं यत् आयुषो भाव आयुष्यं दीघयुष्ट्वं शतमानस्त्वं तस्य प्रदायकं तद्विघात
कग्रहविषादिबाधानिरासकमिति । यदा आयुरेघायुष्यं दीर्घशतमानादविकमायुष्यं
ये श्रेयस्तेषां गुटिकौषधियोगसिद्धयदीनां प्रदायकं तत्प्राप्तिकरापूर्वसंपादकमिति ।
तेन न कालमृत्युनिवारणेन गतार्थता । अपुत्राणां पुत्रकामबद्धानाम् । संपुत्राणां
सिढे इच्छाविरहादपुत्रेष्वेव प्रायः पुत्रकामनदर्शनातयतम् । अत एवं कपुत्रामृत
प्रजादीनां बन्ध्यास्वेव गणना स्मृतिषु । तेन सपुत्राणामपि पुत्रान्तरेच्छायामत्राधि
कारः । अपुत्राणामपि पुत्रकामाभावे पुत्रकामप्रयोगे नाधिकार इति सिद्धयति ।
तेन च तत्तत्कामनायास्ततफलप्रयोगाधिकारितावच्छेदकत्वं सूचितम् । मचाने-
कफलविषयकसमूहालम्बनामकैकमनाकामनावतः सर्वप्रयोगेष्वधिकारातेन कः प्रयोगः
प्रयमतोऽनुष्ठेय इत्यत्र विनिगमनविरह इति वाच्यम् । तत्रेण सर्वफलप्रदयैकस्यैव
प्रयोगस्यानुष्ठातुं शक्यत्वात् । न चैवं सति ‘ तत्र सर्वेऽविशेषा 'दिति चातुर्थिकाधि
करणविरोधः । तत्र हि सर्वकामप्रददर्शपूर्णमासज्योतिष्टोम।देः सकृदनुष्टुमनेनैवमेव
फलं भवतीति सिद्धान्तितवादिति वाच्यम् । अल्पप्रदकर्मस्वेव तदधिकरणन्यायानां
व्यवस्थितवान् । देवताप्रीतेस्तु लोकविलक्षणत्वात् । अत एवोक्तं ' लोकातीता
गुणातीत सर्वातीता शमतिमके' (ति । कर्मस्त्रपीदृशन्यायस्यर्थान्तरैरीक |राज्य ।
यदुक्तं हिरण्यकेशिसूत्रे ‘एकप्रयोगे सर्वान्कामान्कामयत प्रयोगपृषधये चैकैक '.
मिति ।
वैषयिकक मनसामान्याभाववतोऽप्यत्राधिकार इत्याहुः पुरुषार्षीति । पुणे
बुद्धिमद्भिरथ्यत इति पुरुषाथों मोक्षः । निष्कामोऽपि मोक्षफलकप्रयोगेऽधिक्रियते।
इति भावः । वस्तुतश्चतुर्वर्गप्रदायिकमियं वायंः। संकोचे मानाभावात् । उक्तं च
पपुराणे पुष्क रखण्डे आलिङ्गप्रकरण
अतःपरं च देवानामर्चनं कारयेदबधः । |
यं विशव छ वेश्यः स्तोत्रं प्राप्तिविधायकम् । |
प्रदत्वमपि गङ्गाश्यामलदिप्रीतिजननद्वारा तत्रास्येव, पञ्चमस्तवरा आदिललितं