पृष्ठम्:श्रीललितासहस्रनाम.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[३१
सौभाग्यभास्करव्याख्या

सिध्यति । विशदध: । समांशस्याप्यंशत्वमात्रविवक्षायामनियतलिङ्गोऽर्धशब्द ।
अर्ध नपमक 'मिति सूत्रे कः पुनः पुलिङ्ग इति भाष्यस्यानियतलिङ्गपरत्वेनैव
कैयटेन व्याग्यानात् वा. 'पुंस्यर्घः' इनि कोशाच्च । तेन षोडशषोडशाक्षराणि
त्रिशन्नामानीत्यर्थः । भकारम्य चतुरक्षरात्मकमेक नामेति एकपदस्य तदुत्तरमेकना
मेत्यर्थे सिद्धम्यायात् द्वादशाक्षरमिति सिध्यति । एकस्मिन्नधे तावत एव परिशेषात् ।
अर्थात्परतोऽर्धान्तरग्रहणे तन्मध्ये नामसमाप्त्ययोगात् । 'यतिविच्छंद ' इति
पिङ्गलसूत्रेणार्धान्तेऽवसानविधानात् । अवसानस्य च पदसमाप्तिव्याप्यत्वात ।
नचाधन्यूनमेव नाम समाप्यतामिति वाच्यम् । तथात्वे एकपदवैयथ्र्यात् । रूप
पदेन द्वादशसख्याया उक्तपरिभाषानुसारेण वक्तुं शक्यत्वेपि दुव्यक्षरैकाक्षरे नामनी
इति भ्रमो माप्रसंजीति तथा नोक्तम् । अत एव दशाधिका संन्या पारिभाषिकाने
काक्षरसाध्यत्वान्नेह परिभाषया निर्दिश्यत इत्यपि नियमो द्रष्टव्य. । ततोऽयंत्रयं
त्रीणि नामानि ततोऽष्टाभिरष्टाभिरक्षरं । ततश्चतुभिः पञ्चभिरष्टाभिद्वभ्यां
षड़िभिश्चाक्षरैः षणामानि । नत सप्तभिश्चरणैः सप्त । ततस्त्रिभिः पञ्चभिर्ते
नामनी इत्येवं श्लोकार्थः ।। ७ | अथ नाम्नामर्थः प्रस्तूयते । तेषु स्त्रीपुंनप :
गकलिङ्गानां नाम्नां विशेषणरूपत्वेन तेपा क्रमेण चिदात्मा ब्रह्मत्यादीनि विशेष्य
मर्पकपदानि निर्दिष्टानि । पदानुसारीण्येव हि लिङ्गानि न तु वास्तविकं ब्रह्मण्ये
वामपि निङ्ग न स्त्री न पण्ढो न पुमानजेशितु रिति विष्णुभागवतात् ।

न त्वमम्ब पुरुषो न चाङ्गना चित्स्वरूपिणि न षण्ढ़तापि ते ।
नापि भर्तुरपि ते त्रिलिङ्गता त्वां विना न तदपि स्फुरेदयम् ।।

इति कालिकादासोक्तेश्च । अत एव देवताया ध्यानेऽप्यैच्छिक एव विकल्प

स्मयन् । 'पुरूपं वा म्मरेद्देवि' स्त्रीम्रपं वा विचिन्तयेत् । अथवा निष्कलं ध्याये
सच्चिदानन्दलक्षणमि' ति विशेयनिर्देशायैव वा लिङ्गत्रयसाधारणस्य प्रणवस्यादौ
प्रयोग : । तस्य च समस्तम्य ब्रवार्थ: । “ ओतत्सदिति निर्देशो ब्रह्मणस्त्रिविध
स्मृतः' इति भगवद्वचनात । अकारोकारमकारनादविन्दुभिव्यस्तंबंद्राविष्णुरुद्वेश्वर
मदाशिवानां कथनात्तत्पञ्चकरूपमिति वा । तदुक्तं बृहन्नारदीये

अकारं ब्रह्मणो रूपमुकारं विष्णुरूपवत् ।
वाच्य तत्परम ब्रह्म वाचकः प्रणवः स्मृतः ।
वाच्यवाचकचकसंबन्धस्तयोः स्यादौपचारिकः ।।

इत्यत्र । रूपपदं वाच्यवाचकयोरभेदाभिप्रायेणाभिन्नपरम । अत एव भेदधटितो
वाच्यवाचकभावसबन्ध औपचारिकोऽमुख्यः । व्यावहारिक इत्यर्थ । अनेनैवाशयेन
1. अर्थात्परतोऽर्यान्तर, 2. द्वे नामनी, 3. नपुमान्नजन्तु, 4. स्मरेद्देवीं.