VIII
रहस्यजातं दुरवगाहं सद्भरुसमुपदशमात्रसवधम्। दुष्करमेतद्वयाख्यानं
अनधीतवेदवेदान्तमीमांसातर्कव्याकरणादिशास्रजातस्य अदीक्षितस्य
विपश्चितः। एतन्मनसि निधाय शिष्यानुजिघृक्षया पदवाक्यप्रमाण
पारावारपाराणः, सवतन्तस्वतन्त्रः, श्रामसहयज्ज्वपदपाथाजप्रवण
भारत्युपपदः, श्रीमद्गम्भीररायतनय अन्वर्थनामधेयो भास्कररायः
श्रीललितानामसहस्रस्य सौभाग्यभास्कराभिधं भाष्यं प्रिणनाय। अयैव
भास्कररायस्य दीक्षानाम भासुरानन्दनाथ इति ।
जीवित संग्रहः
महोदयश्चासौ निजजनु” कतमं भूभागं पवित्रीचकारेत्यत्र
नातीव स्पष्टमवगम्यते। किन्तु एतच्छिष्येण जगन्नाथनाम्रा प्रणीतात्
भुवनाभोगापरनामकात् श्रीभास्करविलासकाव्यात् केचिदंशा एवम
स्माभिः ज्ञातुं शक्यन्ते ।
भास्करराय: कोनमाम्बा - गम्भीरराययोः द्वितीयः पुत्रः।
अयं महाराष्ट्रदेशे विजयपुरमण्डले तनुजनामकेऽग्रहारे क्रीस्तोः परं
सप्तदशशतकान्ते लब्धजन्माऽभूत्। शैशवेऽसौ भागानगरे कश्चि
त्कालमुवास । ततः परं वाराणस्यां कृतभूरिपरिश्रमः सर्वासु विद्यासु
अनितरसाधारणं वैदुष्यं समपीपदत् । गच्छति कालेऽयं सूरत् नगरे
शिवदतशुक्लसन्निधौ श्रीविद्यायां पूर्णाभिषेकं प्राप्य भासुरानन्दनाथ
इति दीक्षानाम लेभे। पश्चादयं दक्षिणभारते कृष्णातीरे, कावेरीतीरे
च बहुकालं न्यवसत्। तञ्जापुरमण्डले भास्करपुरमिति एतत्राम्रा
अग्रहारः कश्चिदासीत्। तत्रैव बहुकालमुषित्वा अन्ते तत्समीपस्थिते
मध्यार्जुनपुरेऽसौ देवीपादसन्निधिमगादिति कथयन्ति वृद्धाः ।
कृतयः
सकलशास्त्रपारदृश्वाऽसौ भास्कररायः अष्टत्रिंशत्संख्याकान्
प्रन्थान् प्रणिनायेति महती प्रसिद्धः। सौभाग्यभास्करभाष्ये तत्र तत्र