पृष्ठम्:श्रीललितासहस्रनाम.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[५१
सौभाग्यभास्करव्याख्या

ईशानस्य जगत्कर्तुददस्य परमात्मनः । Is/%22}
शिवा भार्या बुधैरुक्ता पुत्रश्चास्य मनोजवः

इति । 'बालेन्दुशेखरो वायुः शिवः शिवमनोरमे ’ इति ;

वायुपुराणेऽपि

ईशानस्य चतुर्थी ' या तनूर्वाग्ररिति स्मृता ।
तस्य पलं शिवा नाम पुत्रश्चस्य मनोजवः ।

इति । यद्वा । शिवं मोक्षे ददाति शिवः । तदुक देवपुराणे


सुमेरुशृङ्गमध्यस्य श्रीमन्नगरनायिका।


शिवा मंबिकाः समाख्याता योगिनां मोक्षदायिनी ।।
शिवाय” जयते देवी ततो लोके शिव मृता ।

इति । आगमे तु

पावकस्योष्णतेवेयं भास्करस्येव दीधितिः ।
चन्द्रस्य चन्द्रके बेयं शिवस्य सहजा शिब । ।।

इति । स्वाधीनति । एवमिच्छादिधमं पापं न धमणांप्रति गृणभूतेत्याह

स्वाधीनति । स्वस्य मनोऽघन आयत्तो वल्लभ भर्ती कामेश्वरो यस्याः । शिवस्य
शक्तघथीनात्मलाभकत्वाद्म्यैव घमधीन इत्यर्थः । तदुपतं कालिकापुराणे ।

नित्यं वसति तभ्रापि पार्वत्य। सह नर्मकृत् ।।
मध्ये देवीगृहं तत्र तदधीनस्तु शंकरः ।

इति । आगमेऽपि -

शक्तो यया स शंभुर्भवतौ मृतौ च पशुगणस्यास्य ।
तामेनां चिनूपमाद्य सर्वारमनामि ननः ।

इति । स्कान्देऽपि

जगकरणमापन्नः शिवो यं मुनिसत्तमः।
तस्यापि साभवद्भक्तिस्तया हीनो निरर्थकः ।


१.चतुर्माया, 2. शिवर्थ यतते.