पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 इत्युक्ता ब्रह्मणा सर्वे मुनयश्च दिवौकसः ।। १० ।। योगिनोऽपि महात्मानस्तस्माल्लोकाद्विनिर्ययुः । यह कहकर ब्रह्मा के साथ-साथ सभी ऋषि, मुनि, देवता, योगी तथा महात्मागण ब्रह्मलोक से निकले ! निर्गत्य सहसा शेषभूधरेन्द्रं समाश्रिता ।। ११ ।। नानामृगसमाकीर्णमनेकझषसङ्कुलम् । तालहिन्तालपुन्नागचम्पकाशोकशोभितम् ।। १२ ।। कुन्दमन्दारपन्सपूरकतकसयुतम् । तिमिशैश्चिरिबिल्वैश्च नक्तमालैश्च पुष्पितैः ।। १३ ।। चम्पकैः पनसैराम्रनारिकेलैश्च शोभितम् । कोविदारकरञ्जैश्च पाटलाश्वत्थपादपैः ।। १४ ।। प्लक्षोदुम्बरजंबूभिः कपित्थकलिभूरुहैः । चम्पकै:सिन्धुवारैश्च शोभितं रक्तचन्दनैः ।। १५ ।। भूलोकदुर्लभैद्वपैस्सम्भवैः पादपैरपि । खर्जुरैः किंशुकैश्चैव स्यन्दनैः पद्मकैस्तथा ।। १६ ।। अङ्कोलैर्मुचुकुन्दैश्च शिशुपाभूरुहैस्तथा । मधूकशाल्मलीभिश्च पुष्पिताभिः सुशोभितम्।। १७ सर्वकालफलैवृझैः स्रवन्मधुसुशोभितै । मत्तकोकिलसन्नादैः षट्पदस्वनसम्भ्रमैः ।। १८ ।। (१०)