पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवर्णमुखरीतीरादुत्तरे क्रोशमात्रके । अनेकपुण्यतोयैश्च पुण्यैश्चैव महाहदैः ।। ४४ ।। 8७ अनेककिन्नरीभिश्च शोभितः पर्वतोत्तमः । दिव्योऽयं पर्वतेन्द्रस्तु न पुनः प्राकृतो गिरिः ।। ४५ ।। स्वरुपं तस्य शैलस्य न तु जानन्ति मानुषाः । नारायणस्य देवस्य वैकुण्ठपुरवासिनः ।। ४६ ।। सूर्यवैकुण्ठनाकेभ्यः प्रियोऽयं वेङ्कटाचलः इस प्रकार महामुनि पूछे जाने पर वसिष्ठ जी पुनः बोले । हे राजन ! सुनिये, भागीरथी के दक्षिण भाग में, दो सौ योजन की दूरी पर वेङ्कट नाम का पर्वत है । सुवर्णमुवरी नदी के उत्तरीय तीर में प्राय: एक कोस पर अनेक पुण्थ जलाशय तथा हृद से सम्पन्न अनेक किन्नरियों से सुशोभित यह पर्वत अत्यन्त दिव्य तथा परम अप्राकृत है । उस पर्वत के स्वरूप को मनुष्यगण नहीं जानते हैं । वैकुण्ठवासी देव श्रो नारायण को यह वेङ्कटाचल सूर्यलीक, वैकुण्ठधाम तथा स्वर्गलोक से भी अधिक प्रिय है। (४३-४७) तस्मिन्हि रमते नित्यं श्रीनिवासः श्रिथा सह ।। ४७ ।। दर्शनार्थ हरेस्तत्र यजन्ते मुनयोऽमलाः । योगिनस्त्रिदशाश्चापि तपः कुर्वन्ति सन्ततम् ।। ४८ ।। स्वयम्भूर्भगवान्ब्रह्मा तस्मिन्गिरिवरोत्तमे । लोकानुग्रहसिध्यर्थं करिष्यति तपो महत् ।। ४९ ।। दर्शयिष्यति तस्मै च स्वस्य रुपं महद्धरिः । दास्यत्यभीष्टं सर्वेभ्यो दर्शनादेव माधवः ।। ५० ।। 12 कूलङ्कषमहौदार्यगुणसिन्धुः श्रियः पतिः । तवात्यभीष्ठं गोविन्दो दास्यत्येव न संशय ।। ५१ ।।