पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

92 त्रयोदशोऽध्यायः दशरथेन श्रीवेङ्कटाचलवासिमहर्षिचरिखदर्शनम् श्रीसूत उवाच :- ततो राजा दशरथो वसिष्ठेन सह प्रभुः । पश्यन्पश्यन्वनं रम्यं सानूनि शिखराणि च ।। १ ।। प्राप तत्र गिरौ पुण्यं स्वामिपुष्करिणीं शुभाम् । फुल्लकल्हारकुमुदपुण्डरीकमहोत्पलाम् ।। २ ।। नीलोत्पलगणोपेतां रक्तोत्पलसुशोभिताम् । वञ्जुलैर्वकुलैश्चान्यैः सेवितं काननोद्भवैः ।। ३ ।। हंसकारण्डवाकीर्णा बकभेकविधूणिताम् । सारसारवसम्पूर्णा भ्रमरारवनादिताम् ।। ४ ।। मत्स्यकच्छपसम्बाधां शिशुमारनिषेविताम् नकैः कर्कटकैश्चान्यैर्जलजैर्वनजैरपि ।। ५ ।। सेवितां तीरजैर्वेक्षनििरकेलरसालकैः । पूगचम्पकपुन्नागकेतकैः स्वर्णकेतकैः ।। ६ ।। अशोककदलीभिश्च मातुलुङ्गश्च शोभिताम् । लिकुचैबीजपूरैश्च निरन्तरतटद्रुमैः ।। ७ ।। शोभितां सरसीं दृष्ट्वा मुमोद स महाद्युतिः । स्वामीपुष्करिणी निकट, अगणित शोभा युक्त । ऋषिवर सह दशरथ गमन, दर्शन बहु मुनि मुक्त ।। १