पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

114 औपकी आज्ञा बुद्धि से ही करते हैं । हे क्षमासागर ! जो कुछ हम लोगों ने कर्म तथा तपस्या में त्रुटि की हो तथा जान अथवा अनजान से छोड़ दिया हो उन सबको हे देव ! हे श्रीनिवासजी ! क्षमा कीजिये । (२-१०) अथेन्द्रादिकृतभगवत्स्तुतिः इति तस्मिंस्तुते विष्णौ मुनिभिश्च तपोधनैः । इन्द्राद्या देवताः सर्वास्तुष्टुवुर्जगदीश्वरम् ।। ११ ।। इस प्रकार तपस्वी मुनिगण के विष्णु भगवान की प्रार्थना कर चुकने पर देवतागण जगन्नाथ भगवान की इस प्रकार प्रार्थना करने लगे । ऊँ नमी वेङ्कटेशाय शेषाद्रिनिलयाय च । सिंहाचलनिवासाय श्रीमन्नारायणाय च ।। १२ ।। केशवाय नमो नित्यं वासुदेवाय ते नमः । हृषीकेशाय महते वामनाय नमो नमः ।। १३ । सर्वेषां प्राणिनां स्वामिन्निवासार्थं यथायथम् । उद्धृत्य भूमिं पातालात्स्थापयित्वा दृढं पुनः ।। १४ ।। अनुगृहणञ्जनान्सर्वान्प्रत्यक्षं दृश्यसे गिरौ । सुराणामुदधि यत्नान्निर्मध्योत्पाद्य चामृतम् ।। १५ ।। अरक्षस्त्वं सुरान्सर्वान्दत्वा पीयूषमादरात् । त्वदीहा सर्वथा स्वामिन्पराथैव सुरेश्वर ! ।। १६ ।। त्वत्स्वरूपं यथावद्धि ज्ञातुं शक्नोति कः पुमान् ? क्वचित्सहस्रमूर्धा त्वं सहस्राक्षः सहस्रपात् ।। १७ ।।