पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

136 श्रीवेङ्कटेश्वरमहोत्सवघट्टः 'ध्वजारोहणपूर्वश्च कार्यस्तव महोत्सवः । स च त्वया महाभूमन्नङ्गीकार्यः श्रिया सह । इति बुवन्विधिस्तेन चोदितः 'क्रियतामिति ।। ३६ ।। विधिश्चकार मुनिभिः वैखानसमुखैः सह । उत्सवं ध्वजपूर्व च कन्यामासं गते रवौ ।। ३७ ।। हे महाप्रभो ! इस स्थान पर ध्वजारोहण से आरम्भकर आपके निमित्त एक महोत्सव मनायेंगे, कृपया आप उसे श्रीलक्ष्मीजी के साथ स्वीकार करें । “ अच्छा करो' ऐसा भगवान की आज्ञा पाकर ब्रह्माजी कन्याराशि में सूर्य के आने पर सब देवताओं मुनियों तथा वैखानसों के साथ ध्वजा-संस्कार पूर्वक उत्सव करने लगे (३६-३७) आहूताश्च सुराः सर्वे सर्वाभ्यो दिभ्य एव च । आगता विबुधाः सर्वे राजानः पुण्यकृत्तमाः ।। ३८ ।। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चांत्यजनास्तथा । नानाजातिसमुत्पन्नाः समुद्रवनवासिनः ।। ३९ ।। अङ्गवङ्गकलिङ्गेषु गौडकाश्मीरसिन्धुषु । चोलमालवपाण्डयेषु कोसलेषु कुशेषु च ।। ४० ।। वसन्तस्ते जनाः सर्वे सकुटुम्बाः समाययुः । चुष्यन्तः सङ्कशश्चोच्चैगोविन्देति पुनः पुनः ।। ४१ । । 'योगिनामप्यदृश्योऽसौ दयया सर्वजन्तुषु । सर्वप्रत्यक्षतां यातः श्रीनिवासः परात्परः ।। ४२ ।। । अङ्गीचकार विधिना निर्मितं च महोत्सवम् ।