पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 63 न शक्यं विस्तराद्वक्तुं चक्रराजस्य वैभवम् । दुष्टान्निबर्हयेत्युक्तश्चक्रराजो महाद्युतिः ।। ३१ ।। आज्ञां वेङ्कटनाथस्य धारयञ्छिरसा तदा । निर्जगाम गिरेः शृङ्गाद्भन्धर्वगणसेवितः ।। ३२ ।। उद्यतायुधशस्त्रैस्तैर्महामुसलपाणिभिः । प्रासतोमरहस्तैश्च शूलपट्टिशधारिभिः ।। ३३ ।। असिचर्मवरैः शूरैबणशाङ्गसिधारिभिः । गजवाजिरथैरुष्टैर्युद्धसन्नाहसम्भ्रमैः ।। ३८ ।। भेरीमृदङ्गपटहै: ढकानि:साणमर्दलैः । जयव्यङ्गकवाद्यधै-च संयुतोऽयं पदातिभि: ।। ३५ ।। राजवेषधरः श्रीमान्सहस्रभुजमण्डित किरीटहारमकुटकेयूराङ्गदशोभितः ।। ३६ ।। दंष्ट्राकरालवदनो ज्वलदग्निसमप्रभः । निवर्तकास्त्रसंयुक्तः पञ्चाशच्छतहस्तकः । पद्मरागसमोद्योतरक्तवस्त्रविभूषितः ।। ३८ ।। अनेकतुरगव्यूढं दिव्यं स्यन्दनमास्थितः । प्राचीं दिशं यथौ पूर्व महाघोषसमन्वितः ।। ३९ ।। तेन घोषेण महता जगत् त्रस्तं चराचरम् । स्फुटितं वा महद्वयोम दारिताः किमु पर्वताः इति भूतानि सर्वाणि चुक्रुशुश्च भृशं तदा ।। ४० ।।